भागवत पुराण · अध्याय 12.09
भ्प्_12.08.040।0 श्री-मार्कण्डेय उवाच
किं वर्णये तव विभो यद्-उदीरितो ऽसुः $ संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि &
किं वर्णये तव विभो यद्-उदीरितो ऽसुः $ संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि &
स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च % स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ भ्प्_12.08.040* ॥
मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः $ क्षेमाय ताप-विरमाय च मृत्यु-जित्यै &
मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः $ क्षेमाय ताप-विरमाय च मृत्यु-जित्यै &
नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं % सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः ॥ भ्प्_12.08.041* ॥
तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं $ यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति &
तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं $ यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति &
यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं % ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै ॥ भ्प्_12.08.042* ॥
नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः $ क्षेमं जनस्य परितो-भिय ईश विद्मः &
नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः $ क्षेमं जनस्य परितो-भिय ईश विद्मः &
ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः % कालस्य ते किम् उत तत्-कृत-भौतिकानाम् ॥ भ्प्_12.08.043* ॥
तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं $ हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य &
तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं $ हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य &
देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं % विन्देत ते तर्हि सर्व-मनीषितार्थम् ॥ भ्प्_12.08.044* ॥
सत्त्वं रजस् तम इतीश तवात्म-बन्धो $ माया-मयाः स्थिति-लयोदय-हेतवो ऽस्य &
सत्त्वं रजस् तम इतीश तवात्म-बन्धो $ माया-मयाः स्थिति-लयोदय-हेतवो ऽस्य &
लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै % नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् ॥ भ्प्_12.08.045* ॥
तस्मात् तवेह भगवन्न् अथ तावकानां $ शुक्लां तनुं स्व-दयितां कुशला भजन्ति &
तस्मात् तवेह भगवन्न् अथ तावकानां $ शुक्लां तनुं स्व-दयितां कुशला भजन्ति &
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं % लोको यतो ऽभयम् उतात्म-सुखं न चान्यत् ॥ भ्प्_12.08.046* ॥
तस्मै नमो भगवते पुरुषाय भूम्ने $ विश्वाय विश्व-गुरवे पर-दैवताय &
तस्मै नमो भगवते पुरुषाय भूम्ने $ विश्वाय विश्व-गुरवे पर-दैवताय &
नारायणाय ऋषये च नरोत्तमाय % हंसाय संयत-गिरे निगमेश्वराय ॥ भ्प्_12.08.047* ॥
यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः $ सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु &
यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः $ सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु &
तन्-माययावृत-मतिः स उ एव साक्षाद् % आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् ॥ भ्प्_12.08.048* ॥
यद्-दर्शनं निगम आत्म-रहः-प्रकाशं $ मुह्यन्ति यत्र कवयो ऽज-परा यतन्तः &
यद्-दर्शनं निगम आत्म-रहः-प्रकाशं $ मुह्यन्ति यत्र कवयो ऽज-परा यतन्तः &
तं सर्व-वाद-विषय-प्रतिरूप-शीलं % वन्दे महा-पुरुषम् आत्म-निगूढ-बोधम् ॥ भ्प्_12.08.049*
0 सूत उवाच
संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता ।
नारायणो नर-सखः प्रीत आह भृगूद्वहम्
भ्प्_12.09.002।0 श्री-भगवान् उवाच
भो भो ब्रह्मर्षि-वर्यो ऽसि सिद्ध आत्म-समाधिना ।
मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः
वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया ।
वरं प्रतीच्छ भद्रं ते वर-दो ऽस्मि त्वद्-ईप्सितम्
भ्प्_12.09.004।0 श्री-ऋषिर् उवाच
जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत ।
वरेणैतावतालं नो यद् भवान् समदृश्यत
गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् ।
मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः
अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे ।
द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम्
भ्प्_12.09.007।0 सूत उवाच
इतीडितो ऽर्चितः कामम् ऋषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः
तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः ।
वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु
ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् ।
क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः
तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान्
तं चण्ड-शब्दं समुदीरयन्तं बलाहका अन्व् अभवन् करालाः ।
अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः स्वनन्त उच्चैर् अभि वर्ष-धाराः
ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः ।
समीर-वेगोर्मिभिर् उग्र-नक्र- महा-भयावर्त-गभीर-घोषाः
अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः $ शतह्रदाभिर् उपतापितं जगत् &अम्प्;
चतुर्-विधं वीक्ष्य सहात्मना मुनिर् % जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ भ्प्_12.09.013* ॥
तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः प्रभञ्जनाघूर्णित-वार् महार्णवः ।
आपूर्यमाणो वरषद्भिर् अम्बुदैः क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम्
स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं $ त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् &अम्प्;
स एक एवोर्वरितो महा-मुनिर् % बभ्राम विक्षिप्य जटा जडान्ध-वत् ॥ भ्प्_12.09.015* ॥
क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् $ उपद्रुतो वीचि-नभस्वताहतः &
क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् $ उपद्रुतो वीचि-नभस्वताहतः &
तमस्य् अपारे पतितो भ्रमन् दिशो % न वेद खं गां च परिश्रमेषितः ॥ भ्प्_12.09.016* ॥
क्रचिन् मग्नो महावर्ते तरलैस् ताडितः क्वचित् ।
यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः
क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् ।
क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः
अयुतायत-वर्षाणां सहस्राणि शतानि च ।
व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः
स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः ।
न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम्
प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।
शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः
महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् ।
कम्बु-ग्रीवं महोरस्कं सु-नसं सुन्दर-भ्रुवम्
श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-दाडिमम् ।
विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम्
पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् ।
श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम्
चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः
तद्-दर्शनाद् वीत-परिश्रमो मुदा प्रोत्फुल्ल-हृत्-पौल्म-विलोचनाम्बुजः ।
प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः प्रष्टुं पुरस् तं प्रससार बालकम्
तावच् छिशोर् वै श्वसितेन भार्गवः $ सो ऽन्तः शरीरं मशको यथाविशत् &अम्प्;
तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो % यथा पुरामुह्यद् अतीव विस्मितः ॥ भ्प्_12.09.027* ॥
खं रोदसी भा-गणान् अद्रि-सागरान् द्वीपान् स-वर्षान् ककुभः सुरासुरान् ।
वनानि देशान् सरितः पुराकरान् खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः
महान्ति भूतान्य् अथ भौतिकान्य् असौ कालं च नाना-युग-कल्प-कल्पनम् ।
यत् किञ्चिद् अन्यद् व्यवहार-कारणं ददर्श विश्वं सद् इवावभासितम्
हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत ।
विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै बहिर् निरस्तो न्यपतल् लयाब्धौ
तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्-पर्ण-पुटे शयानम् ।
तोकं च तत्-प्रेम-सुधा-स्मितेन निरीक्षितो ऽपाङ्ग-निरीक्षणेन
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।
अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम्
तावत् स भगवान् साक्षाद् योगाधीशो गुहा-शयः ।
अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता
तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः ।
तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0