भागवत पुराण · अध्याय 12.08
भ्प्_12.08.001।0 श्री-शौनक उवाच
सूत जीव चिरं साधो वद नो वदतां वर ।
तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः
आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः ।
यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत्
स वा अस्मत्-कुलोत्पन्नः कल्पे ऽस्मिन् भार्गवर्षभः ।
नैवाधुनापि भूतानां सम्प्लवः को ऽपि जायते
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।
वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम्
एष नः संशयो भूयान् सूत कौतूहलं यतः ।
तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः
भ्प्_12.08.006।0 सूत उवाच
प्रश्नस् त्वया महर्षे ऽयं कृतो लोक-भ्रमापहः ।
नारायण-कथा यत्र गीता कलि-मलापहा
प्राप्त-द्विजाति-संस्कारो मार्कण्डेयः पितुः क्रमात् ।
छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः
बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः ।
बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम्
कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये ।
अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम्
सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः ।
बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः
एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् ।
आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम्
ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च ये ऽपरे ।
नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः
इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः ।
दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना
तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः ।
व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः
एतत् पुरन्दरो ज्ञात्वा सप्तमे ऽस्मिन् किलान्तरे ।
तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम्
गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ ।
मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा
ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे ।
पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो
तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-लताञ्चितम् ।
पुण्य-द्विज-कुलाकीऋनं पुण्यामल-जलाशयम्
मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् ।
मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम्
वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् ।
सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम्
उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः ।
गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः
अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः ।
अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः
हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः ।
मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम्
ननृतुस् तस्य पुरतः स्त्रियो ऽथो गायका जगुः ।
मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम्
सन्दधे ऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा ।
मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन्
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् ।
भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः
इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् ।
वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम्
विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः ।
सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः
त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने ।
दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः
इतीन्द्रानुचरैर् ब्रह्मन् धर्षितो ऽपि महा-मुनिः ।
यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि
दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् स्वराट् ।
श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम्
तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः ।
अनुग्रहायाविरासीन् नर-नारायणो हरिः
तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ $ चतुर्-भुजौ रौरव-वल्कलाम्बरौ &अम्प्;
पवित्र-पाणी उपवीतकं त्रि-वृत् % कमण्डलुं दण्डम् ऋजुं च वैणवम् ॥ भ्प्_12.08.033* ॥
पद्माक्ष-मालाम् उत जन्तु-मार्जनं $ वेदं च साक्षात् तप एव रूपिणौ &
पद्माक्ष-मालाम् उत जन्तु-मार्जनं $ वेदं च साक्षात् तप एव रूपिणौ &
तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा % प्रांशू दधानौ विबुधर्षभार्चितौ ॥ भ्प्_12.08.034* ॥
ते वै भगवतो रूपे नर-नारायणाव् ऋषी ।
दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्ड-वत्
स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः ।
हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम्
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्याद् आश्लिषन्न् इव ।
नमो नम इतीशानौ बभाशे गद्गदाक्षरम्
तयोर् आसनम् आदाय पादयोर् अवनिज्य च ।
अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत्
सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी ।
पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0