भागवत पुराण · अध्याय 12.07
भ्प्_12.07.001।0 सूत उवाच
अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् ।
संहितां सो ऽपि पथ्याय वेददर्शाय चोक्तवान्
शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः ।
वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु ।
कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित्
बभ्रुः शिष्यो ऽथान्गिरसः सैन्धवायन एव च ।
अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे
नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः ।
एते आथर्वणाचार्याः शृणु पौराणिकान् मुने
त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रनः ।
वैशम्पायन-हारीतौ षड् वै पौराणिका इमे
अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् ।
एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम्
कश्यपो ऽहं च सावर्णी राम-शिष्यो ऽकृतव्रनः ।
अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः
पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् ।
शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः
सर्गो ऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च ।
वंशो वंशानुचरीतं संस्था हेतुर् अपाश्रयः
दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः ।
केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया
अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतो ऽहमः ।
भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते
पुरुषानुगृहीतानाम् एतेषां वासना-मयः ।
विसर्गो ऽयं समाहारो बीजाद् बीजं चराचरम्
वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च ।
कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा
रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।
तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः ।
र्षयो ऽंशावताराश् च हरेः षड्-विधम् उच्यते
राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिको ऽन्वयः ।
वंशानुचरितं तेषाम् वृत्तं वंश-धरास् च ये
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः
हेतुर् जीवो ऽस्य सर्गादेर् अविद्या-कर्म-कारकः ।
यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे
व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु ।
माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः
पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु ।
बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम्
विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् ।
योगेर्ल वा तदात्मानं वेदेहाया निवर्तते
एवं लक्षण-लक्ष्याणि पुराणानि पुरा-विदः ।
मुनयो ऽष्टादश प्राहुः क्षुल्लकानि महान्ति च
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडं ।
नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम्
भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-षट्
ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः ।
शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0