भागवत पुराण · अध्याय 12.06
भ्प्_12.06.001।0 सूत उवाच
एतन् निशम्य मुनिनाभिहितं परीक्षिद् $ व्यासात्मजेन निखिलात्म-दृशा समेन &
एतन् निशम्य मुनिनाभिहितं परीक्षिद् $ व्यासात्मजेन निखिलात्म-दृशा समेन &
तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना % बद्धाञ्जलिस् तम् इदम् आह स विष्णुरातः ॥ भ्प्_12.06.001*
0 राजोवाच
सिद्धो ऽस्म्य् अनुगृहीतो ऽस्मि भवता करुणात्मना ।
श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः
नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् ।
अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः
पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् ।
यस्यां खलूत्तमः-श्लोको भगवान् अनवर्ण्यते
भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् ।
प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे ।
मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून्
अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम्
भ्प्_12.06.008।0 सूत उवाच
इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः ।
जगाम भिक्षुभिः साकं नर-देवेन पूजितः
परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना ।
समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः
प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः ।
ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना ।
हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम्
तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् ।
द्विज-रूप-प्रतिच्छन्नः काम-रूपो ऽदशन् नृपम्
ब्रह्म-भूतस्य राजर्षेर् देहो ऽहि-गरलाग्निना ।
बभूव भस्मसात् सद्यः पश्यतां सर्व-देहिनाम्
हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः ।
विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः
देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः ।
ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः
जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् ।
यथाजुहाव सन्क्रुद्धो नागान् सत्रे सह द्विजैः
सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।
दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ
अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् ।
उवाच तक्षकः कस्मान् न दह्येतोरगाधमः
तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् ।
तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदार-धीः ।
सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते
तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे ।
तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता
इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः ।
बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः
तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् ।
विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः
नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-राट् ।
अनेन पीतम् अमृतम् अथ वा अजरामरः
जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा ।
राजंस् ततो ऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः
सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृद्-व्याध्य्-आदिभिर् नृप ।
पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत्
तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् ।
सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते
भ्प्_12.06.028।0 सूत उवाच
इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः ।
सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम्
सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया ।
मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः
न यत्र दम्भीत्य् अभया विराजिता मायात्म-वादे ऽसकृद् आत्म-वादिभिः ।
न यद् विवादो विविधस् तद्-आश्रयो मनश् च सङ्कल्प-विकल्प-वृत्ति यत्
न यत्र सृज्यं सृजतोभयोः परं श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् ।
तद् एतद् उत्सादित-बाध्य-बाधकं निषिध्य चोर्मीन् विरमेत तन् मुनिः
परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः ।
विसृज्य दौरात्म्यम् अनन्य-सौहृदा हृदोपगुह्यावसितं समाहितैः
त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् ।
अहं ममेति दौर्जन्यं न येषां देह-गेह-जम्
अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित्
नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे ।
यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम्
भ्प्_12.06.036।0 श्री-शौनक उवाच
पैलादिभिर् व्यास-शिष्यैर् वेदाचार्यैर् महात्मभिः ।
वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः
भ्प्_12.06.037।0 सूत उवाच
समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः ।
हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते
यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः ।
द्रव्य-क्रिया-कारकाख्यं धूत्वा यान्त्य् अपुनर्-भवम्
ततो ऽभूत् त्रि-वृद् ओंकारो यो ऽव्यक्त-प्रभवः स्व-राट् ।
यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः
शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् ।
येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः
स्व-धाम्नो ब्राह्मणः साक्षाद् वाचकः परमात्मनः ।
स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम्
तस्य ह्य् आसंस् त्रयो वर्णा अ-काराद्या भृगूद्वह ।
धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः
ततो ऽक्षर-समाम्नायम् असृजद् भगवान् अजः ।
अन्तस्थोष्म-स्वर-स्पर्श- ह्रस्व-दीर्घादि-लक्षणम्
तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः ।
स-व्याहृतिकान् सोंकारांश् चातुर्-होत्र-विवक्षया
पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् ।
ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन्
ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः ।
चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः
क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः ।
वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः
अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः ।
ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये
पराशरात् सत्यवत्याम् अंशांश-कलया विभुः ।
अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम्
ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः ।
चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव
तासां स चतुरः शिष्यान् उपाहूय महा-मतिः ।
एकैकां संहितां ब्रह्मन्न् एकैकस्मै ददौ विभुः
पैलाय संहिताम् आद्यां बह्वृचाख्यां उवाच ह ।
वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम्
साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् ।
अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे
पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः ।
बाष्कलाय च सो ऽप्य् आह शिष्येभ्यः संहितां स्वकाम्
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।
पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्मवान्
अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् ।
तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान्
शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्य-मुद्गल-शालीय- गोखल्य-शिशिरेष्व् अधात्
जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तां स्व-संहिताम् ।
बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः
बाष्कलिः प्रति-शाखाभ्यो वालखिल्याख्य-संहिताम् ।
चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः
बह्वृचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः ।
श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते
वैशम्पायन-शिष्या वै चरकाध्वर्यवो ऽभवन् ।
यच् चेरुर् ब्रह्म-हत्यांहः क्षपणं स्व-गुरोर् व्रतम्
याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् ।
चरितेनाल्प-साराणां चरिष्ये ऽहं सु-दुश्चरम्
इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया ।
विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति
देवरात-सुतः सो ऽपि छर्दित्वा यजुषां गणम् ।
ततो गतो ऽथ मुनयो ददृशुस् तान् यजुर्-गणान्
यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः ।
तैत्तिरीया इति यजुः- शाखा आसन् सु-पेशलाः
याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् ।
गुरोर् अविद्यमानानि सूपतस्थे ऽर्कम् ईश्वरम्
भ्प्_12.06.067।0 श्री-याज्ञवल्क्य उवाच
ओं नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान-विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति
_*
यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन-बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम्
_*
य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासुगणान् अनात्मनः स्वयम् आत्मान्तर्-यामी प्रचोदयति
_*
य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञाजगर-ग्रह-गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्व-धर्माख्यात्माव-स्थने प्रवर्तयति
_*
अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् तत्र तत्र कमल-कोशाञ्जलिभिर् उपहृतार्हणः
_*
अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् अहम् अयात-याम-यजुष्-काम उपसरामीति
_*
भ्प्_12.06.073।0 सूत उवाच
एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः ।
यजूंष्य् अयात-यामानि मुनये ऽदात् प्रसादितः
यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः ।
जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः
जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः ।
सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम्
सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् ।
सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज
हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः ।
शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्तमः
उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै ।
पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते
लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च ।
पौष्यञ्जि-सिष्या जगृहुः संहितास् ते शतं शतम्
कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः ।
शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्मवान्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0