भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 12.05

12.05.001

भ्प्_12.05.001।0 श्री-शुक उवाच
अत्रानुवर्ण्यते ऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।
यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः

12.05.002

त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि ।
न जातः प्राग् अभूतो ऽद्य देह-वत् त्वं न नङ्क्ष्यसि

12.05.003

न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् ।
बीजाङ्कुर-वद् देहादेर् व्यतिरिक्तो यथानलः

12.05.004

स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् ।
यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजो ऽमरः

12.05.005

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः

12.05.006

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।
तन् मनः सृजते माया ततो जीवस्य संसृतिः

12.05.007

स्नेहाधिष्ठान-वर्त्य्-अग्नि- संयोगो यावद् ईयते ।
तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः ।
रजः-सत्त्व-तमो-वृत्त्या जायते ऽथ विनश्यति

12.05.008

न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः ।
आकाश इव चाधारो ध्रुवो ऽनन्तोपमस् ततः

12.05.009

एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो ।
बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया

12.05.010

चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः ।
मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम्

12.05.011

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले

12.05.012

दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।
न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः

12.05.013

एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप ।
हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc