भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 12.04

12.04.001

भ्प्_12.04.001।0 श्री-शुक उवाच
कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप ।
कथितो युग-मानं च शृणु कल्प-लयाव् अपि

12.04.002

चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते ।
स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते

12.04.003

तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता ।
त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि

12.04.004

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् ।
शेते ऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः

12.04.005

द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।
तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै

12.04.006

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।
अण्ड-कोषस् तु सङ्घातो विघाट उपसादिते

12.04.007

पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति ।
तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः

12.04.008

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।
सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः

12.04.009

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ।
ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः

12.04.010

दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ ।
उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः

12.04.011

दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् ।
ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम्

12.04.012

परः सांवर्तको वाति धूम्रं खं रजसावृतम् ।
ततो मेघ-कुलान्य् अङ्ग चित्र वर्णान्य् अनेकशः

12.04.013

शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः ।
तत एकोदकं विश्वं ब्रह्माण्ड-विवरान्तरम्

12.04.014

तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे ।
ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते

12.04.015

अपां रसम् अथो तेजस् ता लीयन्ते ऽथ नीरसाः ।
ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा

12.04.016

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।
स वै विशति खं राजंस् ततश् च नभसो गुणम्

12.04.017

शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते ।
तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः

12.04.018

महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् ।
ग्रसते ऽव्याकृतं राजन् गुणान् कालेन चोदितम्

12.04.019

न तस्य कालावयवैः परिणामादयो गुणाः ।
अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम्

12.04.020

न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महद्-आदयो ऽमी ।
न प्राण-बुद्धीन्द्रिय-देवता वा न सन्निवेशः खलु लोक-कल्पः

12.04.021

न स्वप्न-जाग्रन् न च तत् सुषुप्तं न खं जलं भूर् अनिलो ऽग्निर् अर्कः ।
संसुप्त-वच् छून्य-वद् अप्रतर्क्यं तन् मूल-भूतं पदम् आमनन्ति

12.04.022

लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा ।
शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः

12.04.023

बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत्

12.04.024

दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् ।
एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात्

12.04.025

बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते ।
माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि

12.04.026

यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात्

12.04.027

सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह ।
विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः

12.04.028

यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः ।
अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्तवद् अवस्तु यत्

12.04.029

विकारः ख्यायमानो ऽपि प्रत्यग्-आत्मानम् अन्तरा ।
न निरूप्यो ऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत्

12.04.030

न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव

12.04.031

यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर् व्यवहार-वर्त्मसु ।
एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिक-वैदिकैर् जनैः

12.04.033

यथा घनो ऽर्क-प्रभवो ऽर्क-दर्शितो $ ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः &अम्प्;
एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो % ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ भ्प्_12.04.032* ॥
घनो यदार्क-प्रभवो विदीर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा ।
यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत्

12.04.034

यदैवम् एतेन विवेक-हेतिना माया-मयाहङ्करणात्म-बन्धनम् ।
छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम्

12.04.035

नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्तप ।
उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते

12.04.036

काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा ।
परिणामिनां अवस्थास् ता जन्म-प्रलय-हेतवः

12.04.037

अनाद्य्-अन्तवतानेन कालेनेश्वर-मूर्तिना ।
अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव

12.04.038

नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः ।
आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी

12.04.039

एताः कुरु-श्रेष्ठ जगद्-विधातुर् नारायणस्याखिल-सत्त्व-धाम्नः ।
लीला-कथास् ते कथिताः समासतः कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः

12.04.041

संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् $ नान्यः प्लवो भगवतः पुरुषोत्तमस्य &अम्प्;
लीला-कथा-रस-निषेवणम् अन्तरेण % पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ भ्प्_12.04.040* ॥
पुराण-संहिताम् एताम् ऋषिर् नारायणो ऽव्ययः ।
नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः

12.04.042

स वै मह्यं महा-राज भगवान् बादरायणः ।
इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम्

12.04.043

इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये ।
दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc