भागवत पुराण · अध्याय 12.03
भ्प्_12.03.001।0 श्री-शुक उवाच
दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् ।
अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः
काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि ।
येन फेनोपमे पिण्डे ये ऽति-विश्रम्भिता नृपाः
पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिणः ।
ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान्
एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् ।
इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिके ऽन्तकम्
समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा ।
कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम्
यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह ।
गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः
मत्-कृते पितृ-पुत्राणां भ्रातृणां चापि विग्रहः ।
जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम्
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।
स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः
पृथुः पुरूरवा गाधिर् नहुषो भरतो ऽर्जुनः ।
मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः
तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः ।
भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः
हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः ।
नमुचिः शम्बरो भौमो हिरण्याक्षो ऽथ तारकः
अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।
सर्वे सर्व-विदः शूराः सर्वे सर्व-जितो ऽजिताः
ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः ।
कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो
कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम्
यस् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः
भ्प्_12.03.016।0 श्री-राजोवाच
केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः ।
विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने
युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः ।
कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः
भ्प्_12.03.018।0 श्री-शुक उवाच
कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः ।
सत्यं दया तपो दानम् इति पादा विभोर् नृप
सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः ।
आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः
त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः ।
अधर्म-पादैर् अनृत- हिंषासन्तोष-विग्रहैः
तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः ।
त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप
तपः-सत्य-दया-दानेष्व् अर्धं ह्रस्वति द्वापरे ।
हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः
यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः ।
आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः
कलौ तु धर्म-पादानां तुर्यांशो ऽधर्म-हेतुभिः ।
एधमानैः क्षीयमाणो ह्य् अन्ते सो ऽपि विनङ्क्ष्यति
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्क-वैरिणः ।
दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः
सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः ।
काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि
प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च ।
तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः
यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् ।
तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धिमन्
यदा लोभस् त्व् असन्तोषो मानो दम्भो ऽथ मत्सरः ।
कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः
यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः
तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः ।
कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियो ऽसतीः
दस्यूत्कृष्टा जनपदा वेदाः पाषण्ड-दूषिताः ।
राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः
अव्रता बटवो ऽशौचा भिक्षवश् च कुटुम्बिनः ।
तपस्विनो ग्राम-वासा न्यासिनो ऽत्यर्थ-लोलुपाः
ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः ।
शश्वत् कटुक-भाषिण्यश् चौर्य-मायोरु-साहसाः
पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः ।
अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम्
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् ।
भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः
पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः ।
ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः
शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः ।
धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम्
नित्यं उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः ।
निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः
वासो-ऽन्न-पान-शयन- व्यवाय-स्नान-भूषणैः ।
हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः
कलौ काकिणिके ऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः ।
त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि
न रक्षिष्यन्ति मनुजाः स्थविरौ पितराव् अपि ।
पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरं-भराः
कलौ न राजन् जगतां परं गुरुं त्रि-लोक-नाथानत-पाद-पङ्कजम् ।
प्रायेण मर्त्या भगवन्तम् अच्युतं यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः
यन्-नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः
पुंसां कलि-कृतान् दोषान् द्रव्य-देशात्म-सम्भवान् ।
सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः
श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतो ऽपि वा ।
नृणां धुनोति भगवान् हृत्-स्थो जन्मायुताशुभम्
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् ।
एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम्
विद्या-तपः-प्राण-निरोध-मैत्री- तीर्थाभिषेक-व्रत-दान-जप्यैः ।
नात्यन्त-शुद्धिं लभते ऽन्तरात्मा यथा हृदि-स्थे भगवत्य् अनन्ते
तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् ।
म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम्
म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः ।
आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः
कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः ।
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत्
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0