भागवत पुराण · अध्याय 12.02
भ्प्_12.02.001।0 श्री-शुक उवाच
ततश् चानु-दिनं धर्मः सत्यं शौचं क्षमा दया ।
कालेन बलिना राजन् नङ्क्ष्यत्य् आयुर् बलं स्मृतिः
वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः ।
धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि
दाम्पत्ये ऽभिरुचिर् हेतुर् मायैव व्यावहारिके ।
स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि
लिङ्गं एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् ।
अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः
अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।
स्वीकार एव चोद्वाहे स्नानम् एव प्रसाधनम्
दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् ।
उदरं-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि
दाक्ष्यं कुटुम्ब-भरणं यशो ऽर्थे धर्म-सेवनम् ।
एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले
ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः ।
प्रजा हि लुब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः
आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् ।
शाक-मूलामिष-क्षौद्र- फल-पुष्पाष्टि-भोजनाः
अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-पीडिताः ।
शीत-वातातप-प्रावृड्- हिमैर् अन्योन्यतः प्रजाः
क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया ।
त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम्
क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः ।
वर्णाश्रमवतां धर्मे नष्टे वेद-पथे नृणाम्
पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु ।
चौर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु
शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु ।
गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु
अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु ।
विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु
इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु ।
धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति
चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः ।
धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये
शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः ।
भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति
अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः ।
असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः
विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः ।
नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति
अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।
वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् ।
पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु
तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति ।
वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते
यदावतीर्णो भगवान् कल्किर् धर्म-पतिर् हरिः ।
कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी
यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती ।
एक-राशौ समेष्यन्ति भविष्यति तदा कृतम्
ये ऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।
ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः
आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् ।
एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम्
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।
तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि
तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् ।
ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः
विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः ।
तदाविशत् कलिर् लोकं पापे यद् रमते जनः
यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः ।
तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत्
यदा देवर्षयः सप्त मघासु विचरन्ति हि ।
तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः
यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।
तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति
यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि ।
प्रतिपन्नं कलि-युगम् इति प्राहुः पुरा-विदः
दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।
भविष्यति तदा नॄणां मन आत्म-प्रकाशकम्
इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि ।
तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे
एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् ।
कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि
देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः ।
कलाप-ग्राम आसाते महा-योग-बलान्वितौ
ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ ।
वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् ।
अनेन क्रम-योगेन भुवि प्राणिषु वर्तते
राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे ।
भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः
कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नो ऽपि यस्य च ।
भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः
कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता ।
मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा
तेजो-ऽब्-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः ।
महीं ममतया चोभौ हित्वान्ते ऽदर्शनं गताः
ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा ।
कालेन ते कृताः सर्वे कथा-मात्राः कथासु च
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0