भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 12.01

12.01.001

इत्थं हरेर् भगवतो रुचिरावतार- $ वीर्याणि बाल-चरितानि च शन्तमानि &अम्प्;
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो % भक्तिं परां परमहंस-गतौ लभेत ॥ भ्प्_11.31.028*
0 श्री-शुक उवाच
यो ऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः ।
तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम्

12.01.002

प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः ।
विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः

12.01.003

नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे ।
अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः

12.01.004

शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः ।
क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः

12.01.005

विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति ।
दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः

12.01.006

नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः ।
शिशुनागा दशैवैते सष्ट्य्-उत्तर-शत-त्रयम्

12.01.007

समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः ।
महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली

12.01.008

महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् ।
ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः

12.01.009

स एक-च्छत्रां पृथिवीम् अनुल्लङ्घित-शासनः ।
शासिष्यति महापद्मो द्वितीय इव भार्गवः

12.01.010

तस्य चाष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः ।
य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः

12.01.011

नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति ।
तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ

12.01.012

स एव चन्द्रगुप्तं वै द्विजो राज्ये ऽभिषेक्ष्यति ।
तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः

12.01.013

सुयशा भविता तस्य सङ्गतः सुयशः-सुतः ।
शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति ।
शतधन्वा ततस् तस्य भविता तद्-बृहद्रथः

12.01.014

मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् ।
समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह

12.01.015

अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः ।
वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः

12.01.016

ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति ।
ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह

12.01.017

शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् ।
ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप

12.01.018

शुङ्गं हत्वा देवभूतिं काण्वो ऽमात्यस् तु कामिनम् ।
स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः

12.01.019

तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः ।
काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे

12.01.020

हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली ।
गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः

12.01.021

कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः ।
श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः

12.01.022

लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः ।
मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च

12.01.023

अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः ।
पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः

12.01.024

चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः ।
तस्यापि गोमती पुत्रः पुरीमान् भविता ततः

12.01.025

मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः ।
विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः

12.01.026

एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च ।
षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन

12.01.027

सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः ।
कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः

12.01.028

ततो ऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः ।
भूयो दश गुरुण्डाश् च मौला एकादशैव तु

12.01.029

एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च ।
नवाधिकां च नवतिं मौला एकादश क्षितिम्

12.01.030

भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः ।
किलकिलायां नृपतयो भूतनन्दो ऽथ वङ्गिरिः

12.01.031

शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः ।
इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि षट्

12.01.032

तेषां त्रयोदश सुता भवितारश् च बाह्लिकाः ।
पुष्पमित्रो ऽथ राजन्यो दुर्मित्रो ऽस्य तथैव च

12.01.033

एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः ।
विदूर-पतयो भाव्या निषधास् तत एव हि

12.01.034

मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः ।
करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान्

12.01.035

प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः ।
वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरि ।
अनु-गङ्गम् आ-प्रयागं गुप्तां भोक्ष्यति मेदिनीम्

12.01.036

सौराष्ट्रावन्त्य्-आभीराश् च शूरा अर्बुद-मालवाः ।
व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः

12.01.037

सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् ।
भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः

12.01.038

तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भू-भृतः ।
एते ऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः

12.01.039

स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः ।
उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः

12.01.040

असंस्कृताः क्रिया-हीना रजसा तमसावृताः ।
प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः

12.01.041

तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः ।
अन्योन्यतो राजभिश् च क्षयं यास्यन्ति पीडिताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc