भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.30

11.30.001

भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं $ निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् &अम्प्;
अमृतम् उदधितश् चापाययद् भृत्य-वर्गान् % पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतो ऽस्मि ॥ भ्प्_11.29.049*
0 श्री-राजोवाच
ततो महा-भागवत उद्धवे निर्गते वनम् ।
द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः

11.30.002

ब्रह्म-शापोपसंसृष्टे स्व-कुले यादवर्षभः ।
प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत्

11.30.004

प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः $ कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् &अम्प्;
यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां % दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः ॥ भ्प्_11.30.003*
0 श्री ऋषिर् उवाच
दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वासीनान् सु-धर्मायां कृष्णः प्राह यदून् इदम्

11.30.005

भ्प्_11.30.005।0 श्री-भगवान् उवाच
एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः ।
मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः

11.30.006

स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः ।
वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती

11.30.007

तत्राभिषिच्य शुचय उपोष्य सु-समाहिताः ।
देवताः पूजयिष्यामः स्नपनालेपनार्हणैः

11.30.008

ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् ।
गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः

11.30.009

विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् ।
देव-द्विज-गवां पूजा भूतेषु परमो भवः

11.30.010

इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः ।
तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः

11.30.011

तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः ।
चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम्

11.30.012

ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु ।
दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः

11.30.013

महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् ।
कृष्ण-माया-विमूढानां सङ्घर्षः सु-महान् अभूत्

11.30.014

युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः ।
धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः

11.30.015

पतत्-पताकै रथ-कुञ्जरादिभिः खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि ।
मिथः समेत्याश्वतरैः सु-दुर्मदा न्यहन् शरैर् दद्भिर् इव द्विपा वने

11.30.017

प्रद्युम्न-साम्बौ युधि रूढ-मत्सराव् $ अक्रूर-भोजाव् अनिरुद्ध-सात्यकी &अम्प्;
सुभद्र-सङ्ग्रामजितौ सु-दारुणौ % गदौ सुमित्रा-सुरथौ समीयतुः ॥ भ्प्_11.30.016* ॥
अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्-छतजिद्-भानु-मुख्याः ।
अन्योन्यम् आसाद्य मदान्ध-कारिता जघ्नुर् मुकुन्देन विमोहिता भृशम्

11.30.020

दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता $ मध्व्-अर्बुदा माथुर-शूरसेनाः &अम्प्;
विसर्जनाः कुकुराः कुन्तयश् च % मिथस् तु जघ्नुः सु-विसृज्य सौहृदम् ॥ भ्प्_11.30.018* ॥
पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च $ स्वस्रीय-दौहित्र-पितृव्य-मातुलैः &
पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च $ स्वस्रीय-दौहित्र-पितृव्य-मातुलैः &
मित्राणि मित्रैः सुहृदः सुहृद्भिर् % ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः ॥ भ्प्_11.30.019* ॥
शरेषु हीयमाएषु भज्यमानेसु धन्वसु ।
शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः

11.30.021

ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः ।
जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते

11.30.022

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः ।
हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः

11.30.023

अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन ।
एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि

11.30.024

ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् ।
स्पर्धा-क्रोधः क्षयं निन्ये वैणवो ऽग्निर् यथा वनम्

11.30.025

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितो भुवो भार इति मेने ऽवशेषितः

11.30.026

रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् ।
तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि

11.30.027

राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः ।
निषसाद धरोपस्थे तुष्णीम् आसाद्य पिप्पलम्

11.30.028

बिभ्रच् चतुर्-भुजं रूपं भ्रायिष्णु प्रभया स्वया ।
दिशो वितिमिराः कुर्वन् विधूम इव पावकः

11.30.029

श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् ।
कौशेयाम्बर-युग्मेन परिवीतं सु-मङ्गलम्

11.30.030

सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् ।
पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम्

11.30.031

कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः ।
हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम्

11.30.032

वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः ।
कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम्

11.30.033

मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा ।
मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया

11.30.034

चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः ।
भीतः पपात शिरसा पादयोर् असुर-द्विषः

11.30.035

अजानता कृतम् इदं पापेन मधुसूदन ।
क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे ऽनघ

11.30.036

यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् ।
वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो

11.30.037

तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् ।
यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम्

11.30.039

यस्यात्म-योग-रचितं न विदुर् विरिञ्चो $ रुद्रादयो ऽस्य तनयाः पतयो गिरां ये &अम्प्;
त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः % किं तस्य ते वयम् असद्-गतयो गृणीमः ॥ भ्प्_11.30.038*
0 श्री-भगवान् उवाच
मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मद्-अनुज्ञातः स्वर्गं सु-कृतिनां पदम्

11.30.040

इत्य् आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा ।
त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ

11.30.041

दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य ताम् ।
वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ

11.30.043

तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं $ ह्य् अश्वत्थ-मूले कृत-केतनं पतिम् &अम्प्;
स्नेह-प्लुतात्मा निपपात पादयो % रथाद् अवप्लुत्य स-बाष्प-लोचनः ॥ भ्प्_11.30.042* ॥
अपश्यतस् त्वच्-चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा ।
दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे

11.30.044

इति ब्रुवति सूते वै रथो गरुड-लाञ्छनः ।
खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः

11.30.045

तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च ।
तेनाति-विस्मितात्मानं सूतम् आह जनार्दनः

11.30.046

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्-दशाम्

11.30.047

द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः ।
मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति

11.30.048

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ

11.30.049

त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः ।
मन्-माया-रचिताम् एतां विज्ञयोपशमं व्रज

11.30.050

इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc