भागवत पुराण · अध्याय 11.29
भ्प्_11.29.001।0 श्री-उद्धव उवाच
सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः ।
यथाञ्जसा पुमान् सिद्ध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत
प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः ।
विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः
अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्द-लोचन ।
सुखं नु विश्वेश्वर योग-कर्मभिस् त्वन्-माययामी विहता न मानिनः
किं चित्रम् अच्युत तवैतद् अशेष-बन्धो दासेष्व् अनन्य-शरणेसु यद् आत्म-सात्त्वम् ।
यो ऽरोचयत् सह मृगैः स्वयम् ईश्वराणां श्रीमत्-किरीट-तट-पीडित-पाद-पीठः
तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां $ सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु &अम्प्;
को वा भजेत् किम् अपि विस्मृतये ऽनु भूत्यै % किं वा भवेन् न तव पाद-रजो-जुषां नः ॥ भ्प्_11.29.005* ॥
नैवोपयन्त्य् अपचितिं कवयस् तवेश $ ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः &
नैवोपयन्त्य् अपचितिं कवयस् तवेश $ ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः &
यो ऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न् % आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ भ्प्_11.29.006*
0 श्री-शुक उवाच
इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः ।
गृहीत-मूर्ति-त्रय ईश्वरेश्वरो जगाद स-प्रेम-मनोहर-स्मितः
भ्प्_11.29.008।0 श्री-भगवान् उवाच
हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् ।
यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम्
कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् ।
मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः
देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् ।
देवासुर-मनुष्येषु मद्-भक्ताचरितानि च
पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् ।
कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः
माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः
इति सर्वाणि भूतानि मद्-भावेन महा-द्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये ऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः
नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतो ऽचिरात् ।
स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेद् दण्ड-वद् भूमाव् आ-श्व-चाण्डाल-गो-खरम्
यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते ।
तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः
सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया ।
परिपश्यन्न् उपरमेत् सर्वतो मुइत-संशयः
अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम ।
मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः
न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि ।
मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम
एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम्
एष ते ऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः ।
समास-व्यास-विधिना देवानाम् अपि दुर्गमः
अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् ।
एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः
सु-विविक्तं तव प्रश्नं मयैतद् अपि धारयेत् ।
सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति
य एतन् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् ।
तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना
य एतत् समधीयीत पवित्रं परमं शुचि ।
स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन्
य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते
अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतो मोहः शोकश् चासौ मनो-भवः
नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम्
एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम्
नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते ।
पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते
ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः
मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै
भ्प्_11.29.035।0 श्री-शुक उवाच
स एवम् आदर्शित-योग-मार्गस् तदोत्तमःश्लोक-वचो निशम्य ।
बद्धाञ्जलिः प्रीत्य्-उपरुद्ध-कण्ठो न किञ्चिद् ऊचे ऽश्रु-परिप्लुताक्षः
विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहु-मन्यमानः ।
कृताञ्जलिः प्राह यदु-प्रवीरं शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम्
भ्प्_11.29.037।0 श्री-उद्धव उवाच
विद्रावितो मोह-महान्धकारो य आश्रितो मे तव सन्निधानात् ।
विभावसोः किं नु समीप-गस्य शीतं तमो भीः प्रभवन्त्य् अजाद्य
प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः ।
हित्वा कृत-ज्ञस् तव पाद-मूलं को ऽन्यं समीयाच् छरणं त्वदीयम्
वृक्णश् च मे सु-दृढः स्नेह-पाशो दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु ।
प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया ह्य् आत्म-सुबोध-हेतिना
नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी
भ्प्_11.29.041।0 श्री-भगवान् उवाच
गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् ।
तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः
ईक्षयालकनन्दाया विधूताशेष-कल्मषः ।
वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः
तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः
मत्तो ऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् ।
मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव ।
अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम्
भ्प्_11.29.045।0 श्री-शुक उवाच
स एवम् उक्तो हरि-मेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः ।
शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर् न्यषिञ्चद् अद्वन्द्व-परो ऽप्य् अपक्रमे
सु-दुस्त्यज-स्नेह-वियोग-कातरो न शक्नुवंस् तं परिहातुम् आतुरः ।
कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः
ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महा-भागवतो विशालाम् ।
यथोपदिष्टां जगद्-एक-बन्धुना तपः समास्थाय हरेर् अगाद् गतिम्
य एतद् आनन्द-समुद्र-सम्भृतं ज्ञानामृतं भागवताय भाषितम् ।
कृष्णेन योगेश्वर-सेविताङ्घ्रिणा सच्-छ्रद्धयासेव्य जगद् विमुच्यते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0