भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.31

11.31.001

भ्प्_11.31.001।0 श्री-शुक उवाच
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।
महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः

11.31.002

पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः ।
चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः

11.31.003

द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः ।
गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च

11.31.004

ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः

11.31.005

भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः ।
संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत्

11.31.006

लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् ।
योग-धारणयाग्नेय्या- दग्ध्वा धामाविशत् स्वकम्

11.31.007

दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् ।
सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः

11.31.008

देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि ।
अविज्ञात-गतिं कृष्णं ददृशुश् चाति-विस्मिताः

11.31.009

सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्र-मण्डलम् ।
गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः

11.31.010

ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः ।
विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा

11.31.014

राजन् परस्य तनु-भृज्-जननाप्ययेहा $ माया-विडम्बनम् अवेहि यथा नटस्य &अम्प्;
सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते % संहृत्य चात्म-महिनोपरतः स आस्ते ॥ भ्प्_11.31.011* ॥
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं $ त्वां चानयच् छरण-दः परमास्त्र-दग्धम् &
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं $ त्वां चानयच् छरण-दः परमास्त्र-दग्धम् &
जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः % किं स्वावने स्वर् अनयन् मृगयुं स-देहम् ॥ भ्प्_11.31.012* ॥
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् $ अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् &
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् $ अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् &
नैच्छत् प्रणेतुं वपुर् अत्र शेषितं % मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ भ्प्_11.31.013* ॥
य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम्

11.31.015

दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः ।
पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः

11.31.016

कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप ।
तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विर्मूर्च्छिताः

11.31.017

तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः ।
व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम्

11.31.018

देवकी रोहिणी चैव वसुदेवस् तथा सुतौ ।
कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम्

11.31.019

प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः ।
उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः

11.31.020

राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् ।
वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।
कृष्ण-पत्न्यो ऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः

11.31.021

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।
आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः

11.31.022

बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् ।
हतानां कारयाम् आस यथा-वद् अनुपूर्वशः

11.31.023

द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् ।
वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम्

11.31.024

नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम्

11.31.025

स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत्

11.31.026

श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः ।
त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम्

11.31.027

य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc