भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.28

11.28.001

भ्प्_11.28.001।0 श्री-भगवान् उवाच
पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् ।
विश्वम् एकामकं पश्यन् प्रकृत्या पुरुषेण च

11.28.002

पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति ।
स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः

11.28.003

तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः ।
मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान्

11.28.004

किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् ।
वाचोदितं तद् अनृतं मनसा ध्यातम् एव च

11.28.005

छाया-प्रत्याह्वयाभासा ह्य् असन्तो ऽप्य् अर्थ-कारिणः ।
एवं देहादयो भावा यच्छन्त्य् आ-मृत्युतो भयम्

11.28.006

आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः

11.28.007

तस्मान् न ह्य् आत्मनो ऽन्यस्माद् अन्यो भावो निरूपितः ।
निरूपिते ऽयं त्रि-विधा निर्मूल भातिर् आत्मनि ।
इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम्

11.28.008

एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्य-वत्

11.28.009

प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा ।
आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह

11.28.010

भ्प्_11.28.010।0 श्री-उद्धव उवाच
नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः ।
अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते

11.28.011

आत्माव्ययो ऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः ।
अग्नि-वद् दारु-वद् अचिद् देहः कस्येह संसृतिः

11.28.012

भ्प्_11.28.012।0 श्री-भगवान् उवाच
यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् ।
संसारः फलवांस् तावद् अपार्थो ऽप्य् अविवेकिनः

11.28.013

अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा

11.28.014

यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् ।
स एव प्रतिबुद्धस्य न वै मोहाय कल्पते

11.28.015

शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः ।
अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः

11.28.016

देहेन्द्रिय-प्राण-मनो-ऽभिमानो जीवो ऽन्तर्-आत्मा गुण-कर्म-मूर्तिः ।
सूत्रं महान् इत्य् उरुधेव गीतः संसार आधावति काल-तन्त्रः

11.28.017

अमूलम् एतद् बहु-रूप-रूपितं मनो-वचः-प्राण-शरीर-कर्म ।
ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः

11.28.018

ज्ञानं विवेको निगमस् तपश् च प्रत्यक्षम् ऐतिह्यम् अथानुमानम् ।
आद्य्-अन्तयोर् अस्य यद् एव केवलं कालश् च हेतुश् च तद् एव मध्ये

11.28.019

यथा हिरण्यं स्व्-अकृतं पुरस्तात् पश्चाच् च सर्वस्य हिरण्-मयस्य ।
तद् एव मध्ये व्यवहार्यमाणं नानापदेशैर् अहम् अस्य तद्वत्

11.28.020

विज्ञानम् एतत् त्रिय्-अवस्थम् अङ्ग गुण-त्रयं कारण-कर्य-कर्तृ ।
समन्वयेन व्यतिरेकतश् च येनैव तुर्येण तद् एव सत्यम्

11.28.021

न यत् पुरस्ताद् उत यन् न पश्चान् मध्ये च तन् न व्यपदेश-मात्रम् ।
भूतं प्रसिद्धं च परेण यद् यत् तद् एव तत् स्याद् इति मे मनीषा

11.28.022

अविद्यमानो ऽप्य् अवभासते यो वैकारिको राजस-सर्ग एसः ।
ब्रह्म स्वयं ज्योतिर् अतो विभाति ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम्

11.28.024

एवं स्फुतं ब्रह्म-विवेक-हेतुभिः $ परापवादेन विशारदेन &अम्प्;
छित्त्वात्म-सन्देहम् उपारमेत % स्वानन्द-तुष्टो ऽखिल-कामुकेभ्यः ॥ भ्प्_11.28.023* ॥
नात्मा वपुः पार्थिवम् इन्द्रियाणि देवा ह्य् असुर् वायुर् जलम् हुताशः ।
मनो ऽन्न-मात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम्

11.28.027

समाहितैः कः करणैर् गुणात्मभिर् $ गुणो भवेन् मत्-सुविविक्त-धाम्नः &अम्प्;
विक्षिप्यमाणैर् उत किं नु दूषणं % घनैर् उपेतैर् विगतै रवेः किम् ॥ भ्प्_11.28.025* ॥
यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् $ गतागतैर् वर्तु-गुणैर् न सज्जते &
यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् $ गतागतैर् वर्तु-गुणैर् न सज्जते &
तथाक्षरं सत्त्व-रजस्-तमो-मलैर् % अहं-मतेः संसृति-हेतुभिः परम् ॥ भ्प्_11.28.026* ॥
तथापि सङ्गः परिवर्जनीयो गुणेषु माया-रचितेषु तावत् ।
मद्-भक्ति-योगेन दृढेन यावद् रजो निरस्येत मनः-कषायः

11.28.028

यथामयो ऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनो ऽपक्व-कषाय-कर्म कुयोगिनं विध्यति सर्व-सङ्गम्

11.28.029

कुयोगिनो ये विहितान्तरायैर् मनुष्य-भूतैस् त्रिदशोपसृष्टैः ।
ते प्राक्तनाभ्यास-बलेन भूयो युञ्जन्ति योगं न तु कर्म-तन्त्रम्

11.28.030

करोति कर्म क्रियते च जन्तुः केनाप्य् असौ चोदित आ-निपतात् ।
न तत्र विद्वान् प्रकृतौ स्थितो ऽपि निवृत्त-तृष्णः स्व-सुखानुभूत्या

11.28.031

तिष्ठन्तम् आसीनम् उत व्रजन्तं शयानम् उक्षन्तम् अदन्तम् अन्नम् ।
स्वभावम् अन्यत् किम् अपीहमानम् आत्मानम् आत्म-स्थ-मतिर् न वेद

11.28.032

यदि स्म पश्यत्य् असद्-इन्द्रियार्थं नानानुमानेन विरुद्धम् अन्यत् ।
न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम्

11.28.033

पूर्वं गृहीतं गुण-कर्म-चित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग ।
निवर्तते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृय्य आत्मा

11.28.034

यथा हि भानोर् उदयो नृ-चक्षुषां तमो निहन्यान् न तु सद् विधत्ते ।
एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः

11.28.035

एष स्वयं-ज्योतिर् अजो ऽप्रमेयो महानुभूतिः सकलानुभूतिः ।
एको ऽद्वितीयो वचसां विरामे येनेषिता वाग्-असवश् चरन्ति

11.28.036

एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले ।
आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि

11.28.037

यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् ।
व्यर्थेनाप्य् अर्थ-वादो ऽयं द्वयं पण्डित-मानिनाम्

11.28.038

योगिनो ऽपक्व-योगस्य युञ्जतः काय उत्थितैः ।
उपसर्गैर् विहन्येत तत्रायं विहितो विधिः

11.28.039

योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः ।
तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत्

11.28.040

कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः ।
योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः

11.28.041

केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् ।
विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये

11.28.042

न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः ।
अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः

11.28.043

योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् ।
तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः

11.28.044

योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः ।
नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc