भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.27

11.27.001

भ्प्_11.27.001।0 श्री-उद्धव उवाच
क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो ।
यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ

11.27.002

एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् ।
नारदो भगवान् व्यास आचार्यो ऽङ्गिरसः सुतः

11.27.003

निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः ।
पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः

11.27.004

एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् ।
श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द

11.27.005

एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् ।
भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर

11.27.006

भ्प्_11.27.006।0 श्री-भगवान् उवाच
न ह्य् अन्तो ऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव ।
सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः

11.27.007

वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः ।
त्रयाणाम् ईप्सितेनैव विधिना मां समर्चरेत्

11.27.008

यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे

11.27.009

अर्चायां स्थण्डिले ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः ।
द्रव्येण भक्ति-युक्तो ऽर्चेत् स्व-गुरुं माम् अमायया

11.27.010

पूर्वं स्नानं प्रकुर्वीत धौत-दन्तो ऽङ्ग-शुद्धये ।
उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना

11.27.011

सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम्

11.27.012

शैली दारु-मयी लौही लेप्या लेख्या च सैकती ।
मनो-मयी मणि-मयी प्रतिमाष्ट-विधा स्मृता

11.27.013

चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने

11.27.014

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।
स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम्

11.27.015

द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः ।
भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि

11.27.016

स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव ।
स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः

11.27.017

सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि

11.27.018

भूर्य् अप्य् अभक्तोपाहृतं न मे तोषाय कल्पते ।
गन्धो धूपः सुमनसो दीपो ऽन्नाद्यं च किं पुनः

11.27.019

शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः ।
आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः

11.27.020

कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् ।
कलशं प्रोक्षणीयं च यथावद् उपसाधयेत्

11.27.021

तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च ।
प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत्

11.27.022

पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः ।
हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत्

11.27.023

पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम ।
अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम्

11.27.024

तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः ।
आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत्

11.27.025

पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् ।
धर्मादिभिश् च नवभिः कल्पयित्वासनं मम

11.27.026

पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् ।
उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये

11.27.027

सुदर्शनं पाञ्चजन्यं गदासीषु-धनुर्-हलान् ।
मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्

11.27.028

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च ।
महाबलं बलं चैव कुमुदं कमुदेक्षणम्

11.27.029

दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून् सुरान् ।
स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः

11.27.030

चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः ।
सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति

11.27.031

स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया ।
पौरुषेणापि सूक्तेन सामभी राजनादिभिः

11.27.032

वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः ।
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम्

11.27.033

पाद्यम् आचमनीयं च गन्धं सुमनसो ऽक्षतान् ।
धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः

11.27.034

गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् ।
संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत्

11.27.035

अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् ।
अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम्

11.27.036

विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः ।
अग्निम् आधाय परितः समूहेत् पाणिनोदितम्

11.27.037

परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि ।
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम्

11.27.038

तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः ।
लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम्

11.27.039

स्फुरत्-किरीट-कटक कटि-सूत्र-वराङ्गदम् ।
श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम्

11.27.040

ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च ।
प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः

11.27.041

जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः ।
धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः

11.27.042

अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।
मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम्

11.27.043

दत्त्वाचमनम् उच्छेषं विष्वक्षेनाय कल्पयेत् ।
मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत्

11.27.044

उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम ।
मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत्

11.27.045

स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि ।
स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत्

11.27.046

शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात्

11.27.047

इति शेषां मया दत्तां शिरस्य् आधाय सादरम् ।
उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः

11.27.048

अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।
सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः

11.27.049

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम्

11.27.050

मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् ।
पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान्

11.27.051

पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् ।
क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात्

11.27.052

प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् ।
पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात्

11.27.053

माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम्

11.27.054

यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः ।
वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम्

11.27.055

कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च ।
कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc