भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.26

11.26.001

भ्प्_11.26.001।0 श्री-भगवान् उवाच
मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः ।
आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम्

11.26.002

गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया ।
गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः ।
वर्तमानो ऽपि न पुमान् युज्यते ऽवस्तुभिर् गुणैः

11.26.003

सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् ।
तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत्

11.26.004

ऐलः सम्राड् इमां गाथाम् अगायत बृहच्-छ्रवाः ।
उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे

11.26.005

त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्त-वन् नृपः ।
विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः

11.26.006

कामान् अतृप्तो ऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः ।
न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः

11.26.007

भ्प्_11.26.007।0 ऐल उवाच
अहो मे मोह-विस्तारः काम-कश्मल-चेतसः ।
देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः

11.26.008

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितो ऽमुया ।
मूषितो वर्ष-पूगानां बताहानि गतान्य् उत

11.26.009

अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः ।
क्रीडा-मृगश् चक्रवर्ती नरदेव-शिखामणिः

11.26.010

स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् ।
यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन्

11.26.011

कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा ।
यो ऽन्वगच्छं स्त्रियं यान्तीं खर-वत् पाद-ताडितः

11.26.012

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।
किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम्

11.26.013

स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् ।
यो ऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः

11.26.014

सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् ।
न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा

11.26.015

पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः ।
आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम्

11.26.016

बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः ।
मनो-गतो महा-मोहो नापयात्य् अजितात्मनः

11.26.017

किम् एतया नो ऽपकृतं रज्ज्वा वा सर्प-चेतसः ।
द्रष्टुः स्वरूपाविदुषो यो ऽहं यद् अजितेन्द्रियः

11.26.018

क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मको ऽशुचिः ।
क्व गुणाः सौमनस्याद्या ह्य् अध्यासो ऽविद्यया कृतः

11.26.019

पित्रोः किं स्वं नु भार्यायाः स्वामिनो ऽग्नेः श्व-गृध्रयोः ।
किम् आत्मनः किं सुहृदाम् इति यो नावसीयते

11.26.020

तस्मिन् कलेवरे ऽमेध्ये तुच्छ-निष्ठे विषज्जते ।
अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः

11.26.021

त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ ।
विण्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम्

11.26.022

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित् ।
विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा

11.26.023

अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते ।
असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः

11.26.024

तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।
विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम्

11.26.025

भ्प्_11.26.025।0 श्री-भगवान् उवाच
एवं प्रगायन् नृप-देव-देवः स उर्वशी-लोकम् अथो विहाय ।
आत्मानम् आत्मन्य् अवगम्य मां वै उपारमज् ज्ञाअन-विधूत-मोहः

11.26.026

ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः

11.26.027

सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः ।
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः

11.26.028

तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः ।
सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम्

11.26.029

ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः ।
मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि

11.26.030

भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते ।
मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि

11.26.031

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमो ऽप्येति साधून् संसेवतस् तथा

11.26.032

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।
सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम्

11.26.033

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् ।
धर्मो वित्तं नृणां प्रेत्य सन्तो ऽर्वाग् बिभ्यतो ऽरणम्

11.26.034

सन्तो दिशन्ति चक्षूंसि बहिर् अर्कः समुत्थितः ।
देवता बान्धवाः सन्तः सन्त आत्माहम् एव च

11.26.035

वैतसेनस् ततो ऽप्य् एवम् उर्वश्या लोक-निष्पृहः ।
मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc