भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.25

11.25.001

भ्प्_11.25.001।0 श्री-भगवान् उवाच
गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् ।
तन् मे पुरुष-वर्येदम् उपधारय शंसतः

11.25.002

शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः ।
तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः

11.25.003

काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् ।
मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः

11.25.004

क्रोधो लोभो ऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः ।
शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः

11.25.005

सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः ।
वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु

11.25.006

सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः ।
व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः

11.25.007

धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः ।
गुणानां सन्निकर्षो ऽयं श्रद्धा-रति-धनावहः

11.25.008

प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।
स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा

11.25.009

पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः ।
कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम्

11.25.010

यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः ।
तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा

11.25.011

यदा आशिष आशास्य मां भजेत स्व-कर्मभिः ।
तं रजः-प्रकृतिं विद्यात् हिंसाम् आशास्य तामसम्

11.25.012

सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे ।
चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते

11.25.013

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान्

11.25.014

यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया

11.25.015

यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम् ।
युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया

11.25.016

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।
देहे ऽभयं मनो-ऽसङ्गं तत् सत्त्वं विद्धि मत्-पदम्

11.25.017

विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् ।
गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय

11.25.018

सीदच् चित्तं विलीयेत चेतसो ग्रहणे ऽक्षमम् ।
मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय

11.25.019

एधमाने गुणे सत्त्वे देवानां बलम् एधते ।
असुराणां च रजसि तमस्य् उद्धव रक्षसाम्

11.25.020

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् ।
प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम्

11.25.021

उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः ।
तमसाधो ऽध आ-मुख्याद् रजसान्तर-चारिणः

11.25.022

सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः ।
तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः

11.25.023

मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् ।
राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम्

11.25.024

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम्

11.25.025

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम्

11.25.026

सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः

11.25.027

सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा

11.25.028

पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्ति-दाशुचि

11.25.029

सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम्

11.25.030

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि

11.25.031

सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः ।
दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ

11.25.032

एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः ।
येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः ।
भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते

11.25.033

तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् ।
गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः

11.25.034

निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः ।
रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः

11.25.035

सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः ।
सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम्

11.25.036

जीवो जीव-विनिर्मुक्तो गुणैश् चाशय-सम्भवैः ।
मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc