भागवत पुराण · अध्याय 11.24
भ्प्_11.24.001।0 श्री-भगवान् उवाच
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् ।
यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम्
आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् ।
यदा विवेक-निपुणा आदौ कृत-युगे ऽयुगे
तन् माया-फल-रूपेण केवलं निर्विकल्पितम् ।
वाङ्-मनो-ऽगोचरं सत्यं द्विधा समभवद् बृहत्
तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका ।
ज्ञानं त्व् अन्यतमो भावः पुरुषः सो ऽभिधीयते
तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः ।
मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
ततो विकुर्वतो जातो यो ऽहङ्कारो विमोहनः
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् ।
तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः
अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च ।
तैजसाद् देवता आसन्न् एकादश च वैकृतात्
मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः ।
अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम्
तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ ।
मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः
सो ऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् ।
लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा
देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् ।
मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम्
अधो ऽसुराणां नागानां भूमेर् ओको ऽसृजत् प्रभुः ।
त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम्
योगस्य तपसश् चैव न्यासस्य गतयो ऽमलाः ।
महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः
मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् ।
गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति
अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।
सर्वो ऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च
यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् ।
विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः
यद् उपादाय पूर्वस् तु भावो विकुरुते ऽपरम् ।
आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतो ऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम्
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।
महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम्
विराण् मयासाद्यमानो लोक-कल्प-विकल्पकः ।
पञ्चत्वाय विशेषाय कल्पते भुवनैः सह
अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते ।
धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते
अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे ।
लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते
रूपं वायौ स च स्पर्शे लीयते सो ऽपि चाम्बरे ।
अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु
योनिर् वैकारिके सौम्य लीयते मनसीश्वरे ।
शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः
स लीयते महान् स्वेषु गुणेसु गुण-वत्तमः ।
ते ऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयते ऽव्यये
कालो माया-मये जीवे जीव आत्मनि मय्य् अजे ।
आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः
एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।
मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः
एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः ।
प्रतिलोमानुलोमाभ्यां परावर-दृश मया
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0