भागवत पुराण · अध्याय 11.23
भ्प्_11.23.001।0 श्री-बादरायणिर् उवाच
स एवम् आशंसित उद्धवेन भागवत-मुख्येन दाशार्ह-मुख्यः ।
सभाजयन् भृत्य-वचो मुकुन्दस् तम् आबभाषे श्रवणीय-वीर्यः
भ्प्_11.23.002।0 श्री-भगवान् उवाच
बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः ।
दुरक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः
न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः ।
यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः
कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव ।
तम् अहं वर्णयिष्यामि निबोध सु-समाहितः
केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।
स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम्
अवन्तिषु द्विजः कश्चिद् आसीद् आढ्यतमः श्रिया ।
वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धो ऽति-कोपनः
ज्ञातयो ऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः ।
शून्यावसथ आत्मापि काले कामैर् अनर्चितः
दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः ।
दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम्
तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः ।
धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः
तद्-अवध्यान-विस्रस्त- पुण्य-स्कन्धस्य भूरि-द ।
अर्थो ऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः
ज्ञात्यो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव ।
दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात्
स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः ।
उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम्
तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः ।
खिद्यतो बाष्प-कण्ठस्य निर्वेदः सु-महान् अभूत्
स चाहेदम् अहो कष्टं वृथात्मा मे ऽनुतापितः ।
न धर्माय न कामाय यस्यार्थायास ईदृशः
प्रायेणाथाः कदर्याणां न सुखाय कदाचन ।
इह चात्मोपतापाय मृतस्य नरकाय च
यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ।
लोभः स्व्-अल्पो ऽपि तान् हन्ति श्वित्रो रूपम् इवेप्सितम्
अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये ।
नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम्
स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः ।
भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च
एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् ।
तस्माद् अनर्थम् अर्थाख्यं श्रेयो-ऽर्थी दूरतस् त्यजेत्
भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा ।
एकास्निग्धाः काकिणिना सद्यः सर्वे ऽरयः कृताः
अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः ।
त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम्
लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् ।
तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम्
स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् ।
द्रविणे को ऽनुषज्जेत मर्त्यो ऽनर्थस्य धामनि
देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः ।
असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः
व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् ।
कुशला येन सिध्यन्ति जरठः किं नु साधये
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।
कस्यचिन् मायया नूनं लोको ऽयं सु-विमोहितः
किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत ।
मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः
नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः ।
येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः
सो ऽहं कालावशेषेण शोषयिष्ये ऽङ्गम् आत्मनः ।
अप्रमत्तो ऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि
तत्र माम् अनुमोदेरन् देवास् त्रि-भुवनेश्वराः ।
मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत्
भ्प्_11.23.031।0 श्री-भगवान् उवाच
इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः ।
उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः
स चचार महीम् एतां संयतात्मेन्द्रियानिलः ।
भिक्षार्थं नगर-ग्रामान् असङ्गो ऽलक्षितो ऽविशत्
तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः ।
दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः
केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् ।
पीठं चैके ऽक्ष-सूत्रं च कन्थां चीराणि केचन ।
प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः
अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे ।
मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि
यत-वाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ।
तर्जयन्त्य् अपरे वाग्भिः स्तेनो ऽयम् इति वादिनः ।
बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति
क्षिपन्त्य् एके ऽवजानन्त एष धर्म-ध्वजः शठः ।
क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्व-जनोज्झितः
अहो एष महा-सारो धृतिमान् गिरि-राड् इव ।
मौनेन साधयत्य् अर्थं बक-वद् दृढ-निश्चयः
इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च ।
तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम्
एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् ।
भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत
परिभूत इमां गाथाम् अगायत नराधमैः ।
पातयद्भिः स्व धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम्
भ्प्_11.23.042।0 द्विज उवाच
नायं जनो मे सुख-दुःख-हेतुर् न देवतात्मा ग्रह-कर्म-कालाः ।
मनः परं कारणम् आमनन्ति संसार-चक्रं परिवर्तयेद् यत्
मनो गुणान् वै सृजते बलीयस् ततश् च कर्माणि विलक्षणानि ।
शुक्लानि कृष्णान्य् अथ लोहितानि तेभ्यः स-वर्णाः सृतयो भवन्ति
अनीह आत्मा मनसा समीहता हिरण्-मयो मत्-सख उद्विचष्टे ।
मनः स्व-लिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुण-सङ्गतो ऽसौ
दानं स्व-धर्मो नियमो यमश् च श्रुतं च कर्माणि च सद्-व्रतानि ।
सर्वे मनो-निग्रह-लक्षणान्ताः परो हि योगो मनसः समाधिः
समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् ।
असंयतं यस्य मनो विनश्यद् दानादिभिश् चेद् अपरं किम् एभिः
मनो-वशे ऽन्ये ह्य् अभवन् स्म देवा मनश् च नान्यस्य वशं समेति ।
भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देव-देवः
तम् दुर्जयं शत्रुम् असह्य-वेगम् अरुन्-तुदं तन् न विजित्य केचित् ।
कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर् मित्राण्य् उदासीन-रिपून् विमूढाः
देहं मनो-मात्रम् इमं गृहीत्वा ममाहम् इत्य् अन्ध-धियो मनुष्याः ।
एषो ऽहम् अन्यो ऽयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति
जनस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनश् चात्र हि भौमयोस् तत् ।
जिह्वां क्वचित् सन्दशति स्व-दद्भिस् तद्-वेदनायां कतमाय कुप्येत्
दुःखस्य हेतुर् यदि देवतास् तु किम् आत्मनस् तत्र विकारयोस् तत् ।
यद् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्व-देहे
आत्मा यदि स्यात् सुख-दुःख-हेतुः किम् अन्यतस् तत्र निज-स्वभावः ।
न ह्य् आत्मनो ऽन्यद् यदि तन् मृषा स्यात् क्रुध्येत कस्मान् न सुखं न दुःखम्
ग्रहा निमित्तं सुख-दुःखयोश् चेत् किम् आत्मनो ऽजस्य जनस्य ते वै ।
ग्रहैर् ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस् ततो ऽन्यः
कर्मास्तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तद् धि जडाजडत्वे ।
देहस् त्व् अचित् पुरुषो ऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम्
कालस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तत्र तद्-आत्मको ऽसौ ।
नाग्नेर् हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्
न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य ।
यथाहमः संसृति-रूपिणः स्याद् एवं प्रबुद्धो न बिभेति भूतैः
एतां स आस्थाय परात्म-निष्ठाम् अध्यासितां पूर्वतमैर् महर्षिभिः ।
अहं तरिष्यामि दुरन्त-पारं तमो मुकुन्दाङ्घ्रि-निषेवयैव
भ्प्_11.23.058।0 श्री-भगवान् उवाच
निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गां पर्यटमान इत्थम् ।
निराकृतो ऽसद्भिर् अपि स्व-धर्माद् अकम्पितो ऽमूं मुनिर् आह गाथाम्
सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः ।
मित्रोदासीन-रिपवः संसारस् तमसः कृतः
तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।
मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः
य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः ।
धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0