भागवत पुराण · अध्याय 11.22
भ्प्_11.22.001।0 श्री-उद्धव उवाच
कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो ।
नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम
केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिं ।
सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे ।
केचित् सप्तदश प्राहुः षोडशैके त्रयोदश
एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया ।
गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि
भ्प्_11.22.004।0 श्री-भगवान् उवाच
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।
मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम्
नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः
यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् ।
प्राप्ते शम-दमे ऽप्येति वादस् तम् अनु शाम्यति
परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम्
एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः
पौर्वापर्यम् अतो ऽमीषां प्रसङ्ख्यानम् अभीप्सताम् ।
यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात्
अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत्
पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि ।
तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः
प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः ।
सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः
सत्त्वं ज्ञानं रजः कर्म तमो ऽज्ञानम् इहोच्यते ।
गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च
पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभो ऽनिलः ।
ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव
श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः ।
वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः
शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः ।
गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः
सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी ।
सत्त्वादिभिर् गुणैर् धत्ते पुरुषो ऽव्यक्त ईक्षते
व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया ।
लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात्
सप्तैव धातव इति तत्रार्थाः पञ्च खादयः ।
ज्ञानम् आत्मोभयाधारस् ततो देहेन्द्रियासवः
षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् ।
तैर् युइत आत्म-सम्भूतैः सृष्ट्वेदं समपाविशत्
चत्वार्य् एवेति तत्रापि तेज आपो ऽन्नम् आत्मनः ।
जातानि तैर् इदं जातं जन्मावयविनः खलु
सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च ।
पञ्च पञ्चैक-मनसा आत्मा सप्तदशः स्मृतः
तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश
एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च ।
अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ
इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम्
भ्प्_11.22.026।0 श्री-उद्धव उवाच
प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ ।
अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि
एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः
त्वत्तो ज्ञानं हि जीवानां प्रमोषस् ते ऽत्र शक्तितः ।
त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः
भ्प्_11.22.029।0 श्री-भगवान् उवाच
प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ ।
एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः
ममाङ्ग माया गुण-मय्य् अनेकधा विकल्प-बुद्धीश् च गुणैर् विधत्ते ।
वैकारिकस् त्रि-विधो ऽध्यात्मम् एकम् अथाधिदैवम् अधिभूतम् अन्यत्
दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे ।
आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिल-सिद्ध-सिद्धिः
एवं त्वग्-आदि श्रवणादि चक्षुर् जिह्वादि नासादि च चित्त-युक्तम्
यो ऽसौ गुण-क्षोभ-कृतो विकारः प्रधान-मूलान् महतः प्रसूतः ।
अहं त्रि-वृन् मोह-विकल्प-हेतुर् वैकारिकस् तामस ऐन्द्रियश् च
आत्मापरिज्ञान-मयो विवादो ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः ।
व्यर्थो ऽपि नैवोपरमेत पुंसां मत्तः परावृत्त-धियां स्व-लोकात्
भ्प्_11.22.035।0 श्री-उद्धव उवाच
त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो ।
उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च
तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः ।
न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः
भ्प्_11.22.037।0 श्री-भगवान् उवाच
मनः कर्म-मयं णॄणाम् इन्द्रियैः पञ्चभिर् युतम् ।
लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते
ध्यायन् मनो ऽनु विषयान् दृष्टान् वानुश्रुतान् अथ ।
उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति
विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः ।
जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः
जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द ।
विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः
स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ ।
तत्र पूर्वम् इवात्मानम् अपूर्वम् चानुपश्यति
इन्द्रियायन-सृष्ट्येदं त्रै-विध्यं भाति वस्तुनि ।
बहिर्-अन्तर्-भिदा-हेतुर् जनो ऽसज्-जन-कृद् यथा
नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते
यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथैव सर्व-भूतानां वयो-ऽवस्थादयः कृताः
सो ऽयं दीपो ऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।
सो ऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम्
मा स्वस्य कर्म-बीजेन जायते सो ऽप्य् अयं पुमान् ।
म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः
निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् ।
वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव
एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः ।
गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च
आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ ।
न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः
तरोर् बीज-विपाकाभ्यां यो विद्वाञ् जन्म-संयमौ ।
तरोर् विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक्
प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् ।
तत्त्वेन स्पर्श-सम्मूढः संसारं प्रतिपद्यते
सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् ।
तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः
नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।
एवं बुद्धि-गुणान् पश्यन्न् अनीहो ऽप्य् अनुकार्यते
यथाम्भसा प्रचलता तरवो ऽपि चला इव ।
चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः
यथा मनोरथ-धियो विषय्षानुभवो मृषा ।
स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा
तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः ।
आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम्
क्षिप्तो ऽवमानितो ऽसद्भिः प्रलब्धो ऽसूयितो ऽथ वा ।
ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः
निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः ।
श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत्
भ्प्_11.22.060।0 श्री-उद्धव उवाच
यथैवम् अनुबुध्येयं वद नो वदतां वर ।
सु-दुःषहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम्
विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी ।
ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0