भागवत पुराण · अध्याय 11.21
भ्प्_11.21.001।0 श्री-भगवान् उवाच
य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् ।
क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति ते
स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः
शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु ।
द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ
धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ ।
दर्शितो ऽयं मयाचारो धर्मम् उद्वहतां धुरम्
भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः ।
आ-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः
वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि ।
धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये
देश-कालादि-भावानां वस्तूनां मम सत्तम ।
गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम्
अकृष्ण-सारो देशानाम् अब्रह्मण्यो ऽसुचिर् भवेत् ।
कृष्ण-सारो ऽप्य् असौवीर- कीकटासंस्कृतेरिणम्
कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।
यतो निवर्तते कर्म स दोषो ऽकर्मकः स्मृतः
द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च ।
संस्कारेणाथ कालेन महत्वाल्पतयाथ वा
शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने ।
अघं कुर्वन्ति हि यथा देशावस्थानुसारतः
धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् ।
काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः
अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति ।
भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते
स्नान-दान-तपो-ऽवस्था- वीर्य-संस्कार-कर्मभिः ।
मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः
मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् ।
धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः
क्वचिद् गुणो ऽपि दोषः स्याद् दोषो ऽपि विधिना गुणः ।
गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते
समान-कर्माचरणं पतितानां न पातकम् ।
औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः
यतो यतो निवर्तेत विमुच्येत ततस् ततः ।
एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः
विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् ।
सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम्
कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते ।
तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम्
तया विरहितः साधो जन्तुः शून्याय कल्पते ।
ततो ऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च
विषयाभिनिवेशेन नात्मानं वेद नापरम् ।
वृक्ष जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन्
फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् ।
श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम्
उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च ।
आसक्त-मनसो मर्त्या आत्मनो ऽनर्थ-हेतुषु
नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।
कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः
एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः ।
फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि
कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः ।
अग्नि-मुग्धा धूम-तान्ताः स्वं लोकं न विदन्ति ते
न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः ।
उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः
ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः ।
हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना
हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया ।
यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः
स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् ।
आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक्
रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः ।
उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम्
इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि ।
तस्यान्त इह भूयास्म महा-शाला महा-कुलाः
एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् ।
मानिनां चाति-लुब्धानां मद्-वार्तापि न रोचते
वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे ।
परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम्
शब्द-ब्रह्म सु-दुर्बोधं प्राणेन्द्रिय-मनो-मयम् ।
अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत्
मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना ।
भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते
यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् ।
आकाशाद् घोषवान् प्राणो मनसा स्पर्श-रूपिणा
छन्दो-मयो ऽमृत-मयः सहस्र-पदवीं प्रभुः ।
ओंकाराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषिताम्
विचित्र-भाषा-विततां छन्दोभिश् चतुर्-उत्तरैः ।
अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम्
गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च ।
त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विराट्
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन
मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् ।
एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् ।
माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0