भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.20

11.20.001

भ्प्_11.20.001।0 श्री-उद्धव उवाच
विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते ।
अवेक्षते ऽरविण्डाक्ष गुणं दोषं च कर्मणाम्

11.20.002

वर्णाश्रम-विकल्पं च प्रतिलोमानुलोमजम् ।
द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च

11.20.003

गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव ।
निःश्रेयसं कथं नॄणां निषेध-विधि-लक्षणम्

11.20.004

पितृ-देव-मनुष्यानां वेदश् चक्षुस् तवेश्वर ।
श्रेयस् त्व् अनुपलब्धे ऽर्थे साध्य-साधनयोर् अपि

11.20.005

गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः ।
निगमेनापवादश् च भिदाया इति ह भ्रमः

11.20.006

भ्प्_11.20.006।0 श्री-भगवान् उवाच
योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।
ज्ञानं कर्म च भक्तिश् च नोपायो ऽन्यो ऽस्ति कुत्रचित्

11.20.007

निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु ।
तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम्

11.20.008

यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।
न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः

11.20.009

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते

11.20.010

स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव ।
न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत्

11.20.011

अस्मिंल् लोके वर्तमानः स्व-धर्म-स्थो ऽनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया

11.20.012

स्वर्गिणो ऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा ।
साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम्

11.20.013

न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः ।
नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति

11.20.014

एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः ।
अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम्

11.20.015

छिद्यमानं यमैर् एतैः कृत-नीडं वनस्पतिम् ।
खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः

11.20.016

अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः ।
मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति

11.20.018

नृ-देहम् आद्यं सु-लभं सु-दुर्लभं $ प्लवं सु-कल्पं गुरु-कर्णधारम् &अम्प्;
मयानुकूलेन नभस्वतेरितं % पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥ भ्प्_11.20.017* ॥
यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।
अभ्यासेनात्मनो योगी धारयेद् अचलं मनः

11.20.019

धार्यमाणं मनो यर्हि भ्राम्यद् अश्व् अनवस्थितम् ।
अतन्द्रितो ऽनुरोधेन मार्गेणात्म-वशं नयेत्

11.20.020

मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः ।
सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत्

11.20.021

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।
हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः

11.20.022

साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः ।
भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति

11.20.023

निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः ।
मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया

11.20.024

यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया ।
ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः

11.20.025

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।
योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन

11.20.026

स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।
कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः ।
गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया

11.20.027

जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागे ऽप्य् अनीश्वरः

11.20.028

ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः ।
जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन्

11.20.029

प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते

11.20.030

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि मयि दृष्टे ऽखिलात्मनि

11.20.031

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह

11.20.032

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि

11.20.033

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति

11.20.034

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम्

11.20.035

नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् ।
तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत्

11.20.036

न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ।
साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम्

11.20.037

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc