भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.19

11.19.001

भ्प्_11.19.001।0 श्री-भगवान् उवाच
यो विद्या-श्रुत-सम्पन्नः आत्मवान् नानुमानिकः ।
मया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत्

11.19.002

ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः ।
स्वर्गश् चैवापवर्गश् च नान्यो ऽर्थो मद्-ऋते प्रियः

11.19.003

ज्ञान-विज्ञान-संसिद्धाः पदं श्रेष्ठं विदुर् मम ।
ज्ञानी प्रियतमो ऽतो मे ज्ञानेनासौ बिभर्ति माम्

11.19.004

तपस् तीर्थं जपो दानं पवित्राणीतराणि च ।
नालं कुर्वन्ति तां सिद्धिं या ज्ञान-कलया कृता

11.19.005

तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः

11.19.006

ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि ।
सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयो ऽगमन्

11.19.008

त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो $ मायान्तरापतति नाद्य्-अपवर्गयोर् यत् &अम्प्;
जन्मादयो ऽस्य यद् अमी तव तस्य किं स्युर् % आद्य्-अन्तयोर् यद् असतो ऽस्ति तद् एव मध्ये ॥ भ्प्_11.19.007*
0 श्री-उद्धव उवाच
ज्ञानं विशुद्धं विपुलं यथैतद् वैराग्य-विज्ञान-युतं पुराणम् ।
आख्याहि विश्वेश्वर विश्व-मूर्ते त्वद्-भक्ति-योगं च महद्-विमृग्यम्

11.19.009

ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात्

11.19.010

दष्टं जनं सम्पतितं बिले ऽस्मिन् कालाहिना क्षुद्र-सुखोरु-तर्षम् ।
समुद्धरैनं कृपयापवर्ग्यैर् वचोभिर् आसिञ्च महानुभाव

11.19.011

भ्प्_11.19.011।0 श्री-भगवान् उवाच
इत्थम् एतत् पुरा राजा भीष्मं धर्म-भृतां वरम् ।
अजात-शत्रुः पप्रच्छ सर्वेषां नो ऽनुशृण्वताम्

11.19.012

निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत

11.19.013

तान् अहं ते ऽभिधास्यामि देव-व्रत-मखाच् छ्रुतान् ।
ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान्

11.19.014

नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेताथाइकम् अप्य् एषु तज् ज्ञानं मम निश्चितम्

11.19.015

एतद् एव हि विज्ञानं न तथैकेन येन यत् ।
स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम्

11.19.016

आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् ।
पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत्

11.19.017

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते

11.19.018

कर्मणां परिणामित्वाद् आ-विरिञ्च्याद् अमङ्गलम् ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत्

11.19.019

भक्ति-योगः पुरैवोक्तः प्रीयमाणाय ते ऽनघ ।
पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परं

11.19.020

श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम

11.19.021

आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् ।
मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः

11.19.022

मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् ।
मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम्

11.19.023

मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः

11.19.024

एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते

11.19.025

यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।
धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते

11.19.026

यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति ।
रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम्

11.19.027

धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् ।
गुणेस्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः

11.19.028

श्री-उद्धव उवाच यमः कति-विधः प्रोक्तो ।
नियमो वारि-कर्षण कः शमः को दमः कृष्ण

11.19.029

का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं ।
किम् सत्यम् ऋतम् उच्यते कस् त्यागः किं धनं चेष्टं

11.19.030

को यज्ञः का च दक्षिणा पुंसः किं स्विद् बलं श्रीमन् ।
भगो लाभश् च केशव का विद्या ह्रीः परा का श्रीः

11.19.031

किं सुखं दुःखम् एव च कः पण्डितः कश् च मूर्खः ।
कः पन्था उत्पथश् च कः कः स्वर्गो नरकः कः स्वित्

11.19.032

को बन्धुर् उत किं गृहम् क आढ्यः को दरिद्रो वा ।
कृपणः कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि ।
विपरीतांश् च सत्-पते श्री-भगवान् उवाच

11.19.033

अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम्

11.19.034

शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम्

11.19.035

एते यमाः स-नियमा उभयोर् द्वादश स्मृताः ।
पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि

11.19.036

शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः ।
तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः

11.19.037

दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् ।
स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम्

11.19.038

अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते

11.19.039

धर्म इष्टं धनं नॄणां यज्ञो ऽहं भगवत्तमः ।
दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम्

11.19.040

भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः ।
विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु

11.19.041

श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः ।
दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित्

11.19.042

मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः ।
उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः

11.19.043

नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते

11.19.044

दरिद्रो यस् त्व् असन्तुष्टः कृपणो यो ऽजितेन्द्रियः ।
गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः

11.19.045

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुण-दोषयोः ।
गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc