भागवत पुराण · अध्याय 11.18
भ्प्_11.18.001।0 श्री-भगवान् उवाच
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।
वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः
कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् ।
वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा
केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः ।
न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिले-शयः
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसार-षाड् जले ।
आकण्थ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत्
अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा ।
उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा
स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् ।
देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम्
वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् ।
न तु श्रौतेन पशुना मां यजेत वनाश्रमी
अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्व-वत् ।
चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः
एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः ।
मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम्
यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् ।
कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः
यदासौ नियमे ऽकल्पो जरया जात-वेपथुः ।
आत्मन्य् अग्नीन् समारोप्य मच्-चित्तो ऽग्निं समाविशेत्
यदा कर्म-विपाकेषु लोकेषु निरयात्मसु ।
विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः
इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे ।
अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत्
विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः ।
विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम्
बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् ।
त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि
दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् ।
सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत्
मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् ।
न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् ।
सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता
बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः ।
विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम्
एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः ।
आत्म-क्रीड आत्म-रत आत्म-वान् सम-दर्शनः
विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः ।
आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया ।
बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः
तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः ।
विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत्
पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् ।
पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम्
वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् ।
संसिध्यत्य् आश्व् असम्मोहः शुद्ध-सत्त्वः शिलान्धसा
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति ।
असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात्
यद् एतद् आत्मनि जगन् मनो-वाक्-प्राण-संहतम् ।
सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत्
ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः ।
स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः
बुधो बालक-वत् क्रीडेत् कुशलो जड-वच् चरेत् ।
वदेद् उन्मत्त-वद् विद्वान् गो-चर्यां नैगमश् चरेत्
वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः ।
शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत्
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु ।
अति-वादांस् तितिक्षेत नावमन्येत कञ्चन ।
देहम् उद्दिश्य पशु-वद् वैरं कुर्यान् न केनचित्
एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः ।
यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च
अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् ।
लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव-तन्त्रितम्
आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् ।
तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते
यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् ।
तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः
शौचम् आचमनं स्नानं न तु चोदनया चरेत् ।
अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः
न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता ।
आ-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया
दुःखोदर्केषु कामेषु जात-निर्वेद आत्मवान् ।
अज्ज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत्
तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः ।
यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः
यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः ।
ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति
सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा ।
अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते
भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः ।
गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम्
ब्रह्मचर्यं तपः शौचं सन्तोषो भूत-सौहृदम् ।
गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम्
इति मां यः स्व-धर्मेण भजेन् नित्यम् अनन्य-भाक् ।
सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम्
भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।
सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः
इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः ।
ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम्
वर्णाश्रमवतां धर्म एष आचार-लक्षणः ।
स एव मद्-भक्ति-युतो निःश्रेयस-करः परः
एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् ।
यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0