भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.17

11.17.001

भ्प्_11.17.001।0 श्री-उद्धव उवाच
यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः ।
वर्णाशमाचारवतां सर्वेषां द्वि-पदाम् अपि

11.17.002

यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् ।
स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि

11.17.003

पुरा किल महा-बाहो धर्मं परमकं प्रभो ।
यत् तेन हंस-रूपेण ब्रह्मणे ऽभ्यात्थ माधव

11.17.004

स इदानीं सु-महता कालेनामित्र-कर्शन ।
न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः

11.17.005

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।
सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः

11.17.006

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति

11.17.007

तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो

11.17.008

भ्प्_11.17.008।0 श्री-शुक उवाच
इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान्

11.17.009

भ्प्_11.17.009।0 श्री-भगवान् उवाच
धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् ।
वर्णाश्रमाचारवतां तम् उद्धव निबोध मे

11.17.010

आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः ।
कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः

11.17.011

वेदः प्रणव एवाग्रे धर्मो ऽहं वृष-रूप-धृक् ।
उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः

11.17.012

त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी ।
विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः

11.17.013

विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः ।
वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः

11.17.014

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः

11.17.015

वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः ।
आसन् प्रकृतयो नॄनां नीचैर् नीचोत्तमोत्तमाः

11.17.016

शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् ।
मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः

11.17.017

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः ।
स्थैर्यं ब्रह्मन्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः

11.17.018

आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् ।
अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः

11.17.019

शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया ।
तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः

11.17.020

अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः ।
कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम्

11.17.021

अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता ।
भूत-प्रिय-हितेहा च धर्मो ऽयं सार्व-वर्णिकः

11.17.022

द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः ।
वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहूतः

11.17.023

मेखलाजिन-दण्डाक्ष- ब्रह्म-सूत्र-कमण्डलून् ।
जटिलो ऽधौत-दद्-वासो ऽरक्त-पीठः कुशान् दधत्

11.17.024

स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः ।
न च्छिन्द्यान् नख-रोमाणि कक्षोपस्थ-गतान्य् अपि

11.17.025

रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् ।
अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रि-पदां जपेत्

11.17.026

अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुराञ् शुचिः ।
समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन्

11.17.027

आचार्यं मां विजानीयान् नावन्मन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः

11.17.028

सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः

11.17.029

शुश्रूषमाण आचार्यं सदोपासीत नीच-वत् ।
यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः

11.17.030

एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः ।
विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम्

11.17.031

यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् ।
गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः

11.17.032

अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् ।
अपृथग्-धीर् उपसीत ब्रह्म-वर्चस्व्य् अकल्मषः

11.17.033

स्त्रीणां निरीक्षण-स्पर्श- संलाप-क्ष्वेलनादिकम् ।
प्राणिनो मिथुनी-भूतान् अगृहस्थो ऽग्रतस् त्यजेत्

11.17.034

शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् ।
तीर्थ-सेवा जपो ऽस्पृश्या- भक्ष्यासम्भाष्य-वर्जनम्

11.17.035

सर्वाश्रम-प्रयुक्तो ऽयं नियमः कुल-नन्दन ।
मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः

11.17.036

एवं बृहद्-व्रत-धरो ब्राह्मणो ऽग्निर् इव ज्वलन् ।
मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयो ऽमलः

11.17.037

अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः ।
गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः

11.17.038

गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः ।
आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत्

11.17.039

गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यं स-वर्णाम् अनु क्रमात्

11.17.040

इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् ।
प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम्

11.17.041

प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् ।
अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः

11.17.042

ब्राह्मणस्य हि देहो ऽयं क्षुद्र-कामाय नेष्यते ।
कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च

11.17.043

शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो धर्मं महान्तं विरजं जुषाणः ।
मय्य् अर्पितात्मा गृह एव तिष्ठन् नाति-प्रसक्तः समुपैति शान्तिम्

11.17.044

समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् ।
तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात्

11.17.045

सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः ।
आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान्

11.17.046

एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा ।
विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते

11.17.047

सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् ।
खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन

11.17.048

वैश्य-वृत्त्या तु राजन्यो जीवेन् मृगययापदि ।
चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन

11.17.049

शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् ।
कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा

11.17.050

वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् ।
देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत्

11.17.051

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।
धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून्

11.17.052

कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत्

11.17.053

पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः ।
अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा

11.17.054

इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथि-वद् वसन् ।
न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः

11.17.055

कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्तिमान् ।
तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत्

11.17.056

यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः ।
स्त्रैणः कृपण-धीर् मूढो ममाहम् इति बध्यते

11.17.057

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः ।
अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः

11.17.058

एवं गृहाशयाक्षिप्त- हृदयो मूढ-धीर् अयम् ।
अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc