भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.16

11.16.001

भ्प्_11.16.001।0 श्री-उद्धव उवाच
त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् ।
सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः

11.16.002

उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः ।
उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः

11.16.003

येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे

11.16.004

गूढश् चरसि भूतात्मा भूतानां भूत-भावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते

11.16.005

याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महा-विभूते ।
ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम्

11.16.006

भ्प्_11.16.006।0 श्री-भगवान् उवाच
एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर ।
युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै

11.16.007

ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् ।
ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः

11.16.008

स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि

11.16.009

अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः

11.16.010

अहं गतिर् गतिमतां कालः कलयताम् अहम् ।
गुनाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः

11.16.011

गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः

11.16.012

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् ।
अक्षराणाम् अ-कारो ऽस्मि पदानि च्छन्दुसाम् अहम्

11.16.013

इन्द्रो ऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् ।
आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः

11.16.014

ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः ।
देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु

11.16.015

सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् ।
प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा

11.16.016

मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् ।
सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम्

11.16.017

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणां च भू-पतिम्

11.16.018

उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् ।
यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः

11.16.019

नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् ।
आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ

11.16.020

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् ।
आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्मताम्

11.16.021

धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः ।
वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः

11.16.022

पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कन्दो ऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः

11.16.023

यज्ञानां ब्रह्म-यज्ञो ऽहं व्रतानाम् अविहिंसनम् ।
वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः

11.16.024

योगानाम् आत्म-संरोधो मन्त्रो ऽस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम्

11.16.025

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः ।
नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम्

11.16.026

धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः ।
गुह्यानां सु-नृतं मौनं मिथुनानाम् अजस् त्व् अहम्

11.16.027

संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ ।
मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित्

11.16.028

अहं युगानां च कृतं धीराणां देवलो ऽसितः ।
द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान्

11.16.029

वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् ।
किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः

11.16.030

रत्नानां पद्म-रागो ऽस्मि पद्म-कोशः सु-पेशसाम् ।
कुशो ऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःष्व् अहम्

11.16.031

व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः ।
तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम्

11.16.032

ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् ।
सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा

11.16.033

विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् ।
भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः

11.16.034

अपां रसश् च परमस् तेजिष्ठानां विभावसुः ।
प्रभा सूर्येन्दु-ताराणां शब्दो ऽहं नभसः परः

11.16.035

ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः ।
भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः

11.16.036

गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षनम् ।
आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम्

11.16.037

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् ।
अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः

11.16.038

मयेश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित्

11.16.039

सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः

11.16.040

तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः

11.16.041

एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।
मनो-विकारा एवैते यथा वाचाभिधीयते

11.16.042

वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च ।
आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने

11.16.043

यो वै वाङ्-मनसी संयग् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत्

11.16.044

तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः ।
मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc