भागवत पुराण · अध्याय 11.15
भ्प्_11.15.001।0 श्री-भगवान् उवाच
जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः ।
मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः
भ्प्_11.15.002।0 श्री-उद्धव उवाच
कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत ।
कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान्
भ्प्_11.15.003।0 श्री-भगवान् उवाच
सिद्धयो ऽष्टादश प्रोक्ता धारणा योग-पार-गैः ।
तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः
अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः ।
प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता
गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति ।
एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः
अनूर्मिमत्त्वं देहे ऽस्मिन् दूर-श्रवण-दर्शनम् ।
मनो-जवः काम-रूपं पर-काय-प्रवेशनम्
स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् ।
यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः
त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता ।
अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भो ऽपराजयः
एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः ।
यया धारणया या स्याद् यथा वा स्यान् निबोध मे
भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः ।
अणिमानम् अवाप्नोति तन्-मात्रोपासको मम
महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् ।
महिमानम् अवाप्नोति भूतानां च पृथक् पृथक्
परमाणु-मये चित्तं भूतानां मयि रञ्जयन् ।
काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात्
धारयन् मय्य् अहं-तत्त्वे मनो वैकारिके ऽखिलम् ।
सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः
महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दते ऽव्यक्त-जन्मनः
विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे ।
स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम्
नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते ।
मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात्
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दम् आप्नोति यत्र कामो ऽवसीयते
श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि ।
धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः
मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् ।
तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ
चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः
मनो मयि सु-संयोज्य देहं तद्-अनुवायुना ।
मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः
यदा मन उपादाय यद् यद् रूपं बुभूषति ।
तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः
पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत्
पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु ।
आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम्
विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् ।
विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः
यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् ।
मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते
यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् ।
कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम
मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः ।
तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता
अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः ।
मद्-योग-शान्त-चित्तस्य यादसाम् उदकं यथा
मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः ।
ध्वजातपत्र-व्यजनैः स भवेद् अपराजितः
उपासकस्य माम् एवं योग-धारणया मुनेः ।
सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः
जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः ।
मद्-धारणां धारयतः का सा सिद्धिः सु-दुर्लभा
अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् ।
मया सम्पद्यमानस्य काल-क्षपण-हेतवः
जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः ।
योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत्
सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम्
अहम् आत्मान्तरो बाह्यो ऽनावृतः सर्व-देहिनाम् ।
यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0