भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.14

11.14.001

भ्प्_11.14.001।0 श्री-उद्धव उवाच
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः ।
तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता

11.14.002

भवतोदाहृतः स्वामिन् भक्ति-योगो ऽनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः

11.14.003

भ्प्_11.14.003।0 श्री-भगवान् उवाच
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः

11.14.004

तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा ।
ततो भृग्व्-आदयो ऽगृह्णन् सप्त ब्रह्म-महर्षयः

11.14.005

तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः ।
मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः

11.14.006

किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः ।
बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः

11.14.007

याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा ।
यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि

11.14.008

एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।
पारम्पर्येण केषाञ्चित् पाषण्ड-मतयो ऽपरे

11.14.009

मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथा-रुचि

11.14.010

धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् ।
अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् ।
केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान्

11.14.011

आद्य्-अन्त-वन्त एवैषां लोकाः कर्म-विनिर्मिताः ।
दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः

11.14.012

मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।
मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम्

11.14.013

अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः ।
मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः

11.14.015

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं $ न सार्वभौमं न रसाधिपत्यम् &अम्प्;
न योग-सिद्धीर् अपुनर्-भवं वा % मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ भ्प्_11.14.014* ॥
न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।
न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान्

11.14.016

निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् ।
अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः

11.14.017

निष्किञ्चना मय्य् अनुरक्त-चेतसः शान्ता महान्तो ऽखिल-जीव-वत्सलाः ।
कामैर् अनालब्ध-धियो जुषन्ति ते यन् नैरपेक्ष्यं न विदुः सुखं मम

11.14.018

बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते

11.14.019

यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः

11.14.020

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता

11.14.021

भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् ।
भक्तिः पुनाति मन्-निष्ठा श्व-पाकान् अपि सम्भवात्

11.14.022

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि

11.14.023

कथं विना रोम-हर्षं द्रवता चेतसा विना ।
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः

11.14.024

वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।
विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति

11.14.025

यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम्

11.14.026

यथा यथात्मा परिमृज्यते ऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम्

11.14.027

विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते ।
माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते

11.14.028

तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् ।
हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम्

11.14.029

स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः

11.14.030

न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः ।
योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः

11.14.031

भ्प्_11.14.031।0 श्री-उद्धव उवाच
यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् ।
ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि

11.14.032

भ्प्_11.14.032।0 श्री-भगवान् उवाच
सम आसन आसीनः सम-कायो यथा-सुखम् ।
हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः

11.14.033

प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः ।
विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः

11.14.034

हृद्य् अविच्छिनम् ओंकारं घण्टा-नादं बिसोर्ण-वत् ।
प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम्

11.14.035

एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् ।
दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः

11.14.036

हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् ।
ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम्

11.14.037

कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् ।
वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम्

11.14.038

समं प्रशान्तं सु-मुखं दीर्घ-चारु-चतुर्-भुजम् ।
सु-चारु-सुन्दर-ग्रीवं सु-कपोलं शुचि-स्मितम्

11.14.039

समान-कर्ण-विन्यस्त- स्फुरन्-मकर-कुण्डलम् ।
हेमाम्बरं घन-श्यामं श्रीवत्स-श्री-निकेतनम्

11.14.040

शङ्ख-चक्र-गदा-पद्म- वनमाला-विभूषितम् ।
नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम्

11.14.041

द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् ।
सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षनम्

11.14.042

सु-कुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् ।
इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः ।
बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः

11.14.043

तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् ।
नान्यानि चिन्तयेद् भूयः सु-स्मितं भावयेन् मुखम्

11.14.044

तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् ।
तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत्

11.14.045

एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि ।
विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम्

11.14.046

ध्यानेनेत्थं सु-तीव्रेण युञ्जतो योगिनो मनः ।
संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञान-क्रिया-भ्रमः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc