भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.13

11.13.001

भ्प्_11.13.001।0 श्री-भगवान् उवाच
सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः ।
सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि

11.13.002

सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः ।
सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते

11.13.003

धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः ।
आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते

11.13.004

आगमो ऽपः प्रजा देशः कालः कर्म च जन्म च ।
ध्यानं मन्त्रो ऽथ संस्कारो दशैते गुण-हेतवः

11.13.005

तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते ।
निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम्

11.13.006

सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये ।
ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम्

11.13.007

वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद्-वनम् ।
एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः

11.13.008

भ्प्_11.13.008।0 श्री-उद्धव उवाच
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् ।
तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत्

11.13.009

भ्प्_11.13.009।0 श्री-भगवान् उवाच
अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि ।
उत्सर्पति रजो घोरं ततो वैकारिकं मनः

11.13.010

रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः ।
ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः

11.13.011

करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः ।
दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः

11.13.012

रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः ।
अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते

11.13.013

अप्रमत्तो ऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः ।
अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः

11.13.014

एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।
सर्वतो मन आकृष्य मय्य् अद्धावेश्यते यथा

11.13.015

भ्प्_11.13.015।0 श्री-उद्धव उवाच
यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम्

11.13.016

भ्प्_11.13.016।0 श्री-भगवान् उवाच
पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।
पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम् गतिम्

11.13.017

भ्प्_11.13.017।0 सनकादय ऊचुः
गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो ।
कथम् अन्योन्य-सन्त्यागो मुमुक्षोर् अतितितीर्षोः

11.13.018

भ्प्_11.13.018।0 श्री-भगवान् उवाच
एवं पृष्टो महा-देवः स्वयम्भूर् भूत-भावनः ।
ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः

11.13.019

स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया ।
तस्याहं हंस-रूपेण सकाशम् अगमं तदा

11.13.020

दृष्ट्वा माम् त उपव्रज्य कृत्व पादाभिवन्दनम् ।
ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति

11.13.021

इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा ।
यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे

11.13.022

वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः

11.13.023

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः

11.13.024

मनसा वचसा दृष्ट्या गृह्यते ऽन्यैर् अपीन्द्रियैः ।
अहम् एव न मत्तो ऽन्यद् इति बुध्यध्वम् अञ्जसा

11.13.025

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः ।
जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः

11.13.026

गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया ।
गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत्

11.13.027

जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः

11.13.028

यर्हि संसृति-बन्धो ऽयम् आत्मनो गुण-वृत्ति-दः ।
मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम्

11.13.029

अहङ्कार-कृतं बन्धम् आत्मनो ऽर्थ-विपर्ययम् ।
विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत्

11.13.030

यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः ।
जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा

11.13.031

असत्त्वाद् आत्मनो ऽन्येषां भावानां तत्-कृता भिदा ।
गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा

11.13.038

यो जागरे बहिर् अनुक्षण-धर्मिणो ऽर्थान् $ भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् &अम्प्;
स्वप्ने सुषुप्त उपसंहरते स एकः % स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥ भ्प्_11.13.032* ॥
एवं विमृश्य गुणतो मनसस् त्र्य्-अवस्था $ मन्-मायया मयि कृता इति निश्चितार्थाः &
एवं विमृश्य गुणतो मनसस् त्र्य्-अवस्था $ मन्-मायया मयि कृता इति निश्चितार्थाः &
सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण % ज्ञानासिना भजत माखिल-संशयाधिम् ॥ भ्प्_11.13.033* ॥
ईक्षेत विभ्रमम् इदं मनसो विलासं $ दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् &
ईक्षेत विभ्रमम् इदं मनसो विलासं $ दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् &
विज्ञानम् एकम् उरुधेव विभाति माया % स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः ॥ भ्प्_11.13.034* ॥
दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् $ तूष्णीं भवेन् निज-सुखानुभवो निरीहः &
दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् $ तूष्णीं भवेन् निज-सुखानुभवो निरीहः &
सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या % त्यक्तं भ्रमाय न भवेत् स्मृतिर् आ-निपातात् ॥ भ्प्_11.13.035* ॥
देहं च नश्वरम् अवस्थितम् उत्थितं वा $ सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् &
देहं च नश्वरम् अवस्थितम् उत्थितं वा $ सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् &
दैवाद् अपेतम् अथ दैव-वशाद् उपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ भ्प्_11.13.036* ॥
देहो ऽपि दैव-वश-गः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः &
देहो ऽपि दैव-वश-गः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः &
तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ भ्प्_11.13.037* ॥
मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः ।
जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया

11.13.039

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च

11.13.040

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः

11.13.041

इति मे छिन्न-सन्देहा मुनयः सनकादयः ।
सभाजयित्वा परया भक्त्यागृणत संस्तवैः

11.13.042

तैर् अहं पूजितः संयक् संस्तुतः परमर्षिभिः ।
प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc