भागवत पुराण · अध्याय 11.12
भ्प्_11.12.001।0 श्री-भगवान् उवाच
न रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम्
सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियो ऽन्त्य-जाः ।
रजस्-तमः-प्रकृतयस् तस्मिंस् तस्मिन् युगे युगे
बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः ।
वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
ये ऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा
यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि
रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः ।
विगाढ-भावेन न मे वियोग- तीव्राधयो ऽन्यं ददृशुः सुखाय
तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन-गोचरेण ।
क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः
ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् ।
यथा समाधौ मुनयो ऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे
मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः
भ्प्_11.12.016।0 श्री-उद्धव उवाच
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः
भ्प्_11.12.017।0 श्री-भगवान् उवाच
स एष जीवो विवर-प्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः ।
मनो-मयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः
यथानलः खे ऽनिल-बन्धुर् उष्मा बलेन दारुण्य् अधिमथ्यमानः ।
अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिर् इयं हि वाणी
एवं गदिः कर्म गतिर् विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश् च ।
सङ्कल्प-विज्ञानम् अथाभिमानः सूत्रं रजः-सत्त्व-तमो-विकारः
अयं हि जीवस् त्रि-वृद् अब्ज-योनिर् अव्यक्त एको वयसा स आद्यः ।
विश्लिष्ट-शक्तिर् बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत्
यस्मिन्न् इदं प्रोतम् अशेषम् ओतं पटो यथा तन्तु-वितान-संस्थः ।
य एष संसार-तरुः पुराणः कर्मात्मकः पुष्प-फले प्रसूते
द्वे अस्य बीजे शत-मूलस् त्रि-नालः पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः ।
दशैक-शाखो द्वि-सुपर्ण-नीडस् त्रि-वल्कलो द्वि-फलो ऽर्कं प्रविष्टः
अदन्ति चैकं फलम् अस्य गृध्रा ग्रामे-चरा एकम् अरण्य-वासाः ।
हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम्
एवं गुरूपासनयैक-भक्त्या विद्या-कुठारेण शितेन धीरः ।
विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य चात्मानम् अथ त्यजास्त्रम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0