भागवत पुराण · अध्याय 11.11
भ्प्_11.11.001।0 श्री-भगवान् उवाच
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः ।
गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम्
शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया ।
स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी
विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् ।
मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते
एकस्यैव ममांशस्य जीवस्यैव महा-मते ।
बन्धो ऽस्याविद्ययानादिर् विद्यया च तथेतरः
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।
विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि
सुपर्णाव् एतौ सदृशौ सखायौ यदृच्छयैतौ कृत-नीडौ च वृक्षे ।
एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नो ऽपि बलेन भूयान्
आत्मानम् अन्यं च स वेद विद्वान् अपिप्पलादो न तु पिप्पलादः ।
यो ऽविद्यया युक् स तु नित्य-बद्धो विद्या-मयो यः स तु नित्य-मुक्तः
देह-स्थो ऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः ।
अदेह-स्थो ऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा
इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च ।
गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः
दैवाधीने शरीरे ऽस्मिन् गुण-भाव्येन कर्मणा ।
वर्तमानो ऽबुधस् तत्र कर्तास्मीति निबध्यते
एवं विरक्तः शयन आसनाटन-मज्जने ।
दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु ।
न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान्
प्रकृति-स्थो ऽप्य् असंसक्तो यथा खं सवितानिलः ।
वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः ।
प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते
यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-र्ननो-धियाम् ।
वृत्तयः स विनिर्मुक्तो देह-स्थो ऽपि हि तद्-गुणैः
यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया ।
अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः
न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा ।
वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः
न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा ।
आत्मारामो ऽनया वृत्त्या विचरेज् जड-वन् मुनिः
शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि ।
श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः
गां दुग्ध-दोहाम् असतीं च भार्यां देहं पराधीनम् असत्-प्रजां च ।
वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं हीनां मया रक्षति दुःख-दुःखी
यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्-उद्भव-प्राण-निरोधम् अस्य ।
लीलावतारेप्सित-जन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान् न धीरः
एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि ।
उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे
यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर
श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः ।
गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः
मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः ।
लभते निश्चलां भक्तिं मय्य् उद्धव सनातने
सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता ।
स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम्
भ्प्_11.11.026।0 श्री-उद्धव उवाच
साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो ।
भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता
एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो ।
प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम्
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्नो ऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः
भ्प्_11.11.029।0 श्री-भगवान् उवाच
कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः
कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।
अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः
अप्रमत्तो गभीरात्मा धृतिमाञ् जित-षड्-गुणः ।
अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः
आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः ।
भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः
मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम्
मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव ।
सर्व-लाभोपहरणं दास्येनात्म-निवेदनम्
मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् ।
गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः
यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम्
ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।
उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि
सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः ।
गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया
अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् ।
अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम्
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते
सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।
भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना
वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरःसरैः
स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।
क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम्
धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।
युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः
इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः ।
लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया
प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव ।
नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम्
अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन ।
सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0