भागवत पुराण · अध्याय 11.10
भ्प्_11.10.001।0 श्री-भगवान् उवाच
मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः ।
वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत्
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम्
सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।
नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः
निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् ।
जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम्
यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् ।
मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम्
अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः ।
असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक्
जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु ।
उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः
विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् ।
यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः
निरोधोत्पत्त्य्-अणु-बृहन्- नानात्वं तत्-कृतान् गुणान् ।
अन्तः प्रविष्ट आधत्त एवं देह-गुणान् परः
यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि ।
संसारस् तन्-निबन्धो ऽयं पुंसो विद्या च्छिद् आत्मनः
तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् ।
सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम्
आचार्यो ऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।
तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः
वैशारदी साति-विशुद्ध-बुद्धिर् धुनोति मायां गुण-सम्प्रसूताम् ।
गुनांश् च सन्दह्य यद्-आत्मम् एतत् स्वयं च शांयत्य् असमिद् यथाग्निः
अथैषाम् कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः ।
नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम्
मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा ।
तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः
एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः ।
कालावयवतः सन्ति भावा जन्मादयो ऽसकृत्
तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते ।
भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत्
न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि ।
तथा च दुःखं मूढानां वृथाहङ्करणं परम्
यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः ।
ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा
को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके ।
आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः
श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः ।
बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम्
अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु
इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः ।
भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निजार्जितान्
स्व-पुण्योपचिते शुभ्रे विमान उपगीयते ।
गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक्
स्त्रीभिः कामग-यानेन किङ्किनी-जाल-मालिना ।
क्रीडन् न वेदात्म-पातं सुराक्रीडेषु निर्वृतः
तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीण-पुन्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः
यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः ।
कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः
पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् ।
नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः
कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः ।
देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः
लोकानां लोक-पालानां मद् भयं कल्प-जीविनाम् ।
ब्रह्मणो ऽपि भयं मत्तो द्वि-परार्ध-परायुषः
गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् ।
जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ
यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः ।
नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि
यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् ।
य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः
काल आत्मागमो लोकः स्वभावो धर्म एव च ।
इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति
भ्प्_11.10.035।0 श्री-उद्धव उवाच
गुणेषु वर्तमानो ऽपि देह-जेष्व् अनपावृतः ।
गुणैर् न बध्यते देही बध्यते वा कथं विभो
कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः ।
किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा
एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर ।
नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0