भागवत पुराण · अध्याय 11.09
भ्प्_11.09.001।0 श्री-ब्राह्मण उवाच
परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् ।
अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः
सामिषं कुररं जघ्नुर् बलिनो ऽन्ये निरामिषाः ।
तदामिषं परित्यज्य स सुखं समविन्दत
न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् ।
आत्म-क्रीड आत्म-रतिर् विचरामीह बाल-वत्
द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।
यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः
क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् ।
स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु
तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत्
सा तज् जुगुप्सितं मत्वा महती वृईडिता ततः ।
बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत्
उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः ।
तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः
अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम ।
लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया
वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि ।
एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः
मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः ।
वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः
यस्मिन् मनो लब्ध-पदं यद् एतच् छनैः शनैर् मुञ्चति कर्म-रेणून् ।
सत्त्वेन वृद्धेन रजस् तमश् च विधूय निर्वाणम् उपैत्य् अनिन्धनम्
तदैवम् आत्मन्य् अवरुद्ध-चित्तो न वेद किञ्चिद् बहिर् अन्तरं वा ।
यथेषु-कारो नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे
एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः ।
अलक्ष्यमाण आचारैर् मुनिर् एको ऽल्प-भाषणः
गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः ।
सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते
एको नारायणो देवः पूर्व-सृष्टं स्व-मायया ।
संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः ।
एक एवाद्वितीयो ऽभूद् आत्माधारो ऽखिलाश्रयः
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द- सन्दोहो निरुपाधिकः
केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम
ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान्
यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः
यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद् द्वेषाद् भयाद् वापि याति तत्-तत्-स्वरूपताम्
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन्
एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।
स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो
देहो गुरुर् मम विरक्ति-विवेक-हेतुर् $ बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् &अम्प्;
तत्त्वान्य् अनेन विमृशामि यथा तथापि % पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः ॥ भ्प्_11.09.025* ॥
जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् $ पुष्नाति यत्-प्रिय-चिकीर्षया वितन्वन् &
जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् $ पुष्नाति यत्-प्रिय-चिकीर्षया वितन्वन् &
स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः % सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः ॥ भ्प्_11.09.026* ॥
जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा $ शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् &
जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा $ शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् &
घ्राणो ऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् % बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥ भ्प्_11.09.027* ॥
सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या $ वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् &
सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या $ वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् &
तैस् तैर् अतुष्ट-हृदयः पुरुषं विधाय % ब्रह्मावलोक-धिषणं मुदम् आप देवः ॥ भ्प्_11.09.028* ॥
लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते $ मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः &
लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते $ मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः &
तूर्णं यतेत न पतेद् अनु-मृत्यु यावन् % निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ भ्प्_11.09.029* ॥
एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि ।
विचरामि महीम् एतां मुक्त-सङ्गो ऽनहङ्कृतः
न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् ।
ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः
भ्प्_11.09.032।0 श्री-भगवान् उवाच
इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः ।
वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम्
अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः ।
सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0