भागवत पुराण · अध्याय 11.08
भ्प्_11.08.001।0 श्री-ब्राह्मण उवाच
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च ।
देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः
ग्रासं सु-मृष्टं विरसं महान्तं स्तोकम् एव वा ।
यदृच्छयैवापतितं ग्रसेद् आजगरो ऽक्रियः
शयीताहानि भूरीणि निराहारो ऽनुपक्रमः ।
यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक्
ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् ।
शयानो वीत-निद्रश् च नेहेतेन्द्रियवान् अपि
मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः ।
अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः
समृद्ध-कामो हीनो वा नारायण-परो मुनिः ।
नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः
दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः ।
प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत्
योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु मूढः ।
प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।
गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः
अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।
मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति
पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि ।
स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः
नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः ।
बलाधिकैः स हन्येत गजैर् अन्यैर् गजो यथा
न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् ।
भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थविन् मधु
सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः ।
मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम्
ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् ।
शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात्
नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगी-सुतः
जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः ।
मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा
इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः ।
वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते
तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।
न जयेद् रसनं यावज् जितं सर्वं जिते रसे
पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा ।
तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन
सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती ।
अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम्
मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।
तान् शुल्क-दान् वित्तवतः कान्तान् मेने ऽर्थ-कामुकी
आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी ।
अप्य् अन्यो वित्तवान् को ऽपि माम् उपैष्यति भूरि-दः
एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत
तस्या वित्ताशया शुष्यद्- वक्त्राया दीन-चेतसः ।
निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः
तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम ।
निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः
न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति ।
यथा विज्ञान-रहितो मनुजो ममतां नृप
भ्प्_11.08.030।0 पिङ्गलोवाच
अहो मे मोह-विततिं पश्यताविजितात्मनः ।
या कान्ताद् असतः कामं कामये येन बालिशा
सन्तं समीपे रमणं रति-प्रदं वित्त-प्रदं नित्यम् इमं विहाय ।
अकाम-दं दुःख-भयाधि-शोक- मोह-प्रदं तुच्छम् अहं भजे ऽज्ञा
अहो मयात्मा परितापितो वृथा साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया ।
स्त्रैणान् नराद् यार्थ-तृषो ऽनुशोच्यात् क्रीतेन वित्तं रतिम् आत्मनेच्छती
यद् अस्थिभिर् निर्मित-वंश-वंस्य- $ स्थूणं त्वचा रोम-नखैः पिनद्धम् &अम्प्;
क्षरन्-नव-द्वारम् अगारम् एतद् % विण्-मूत्र-पूर्णं मद् उपैति कान्या ॥ भ्प्_11.08.033* ॥
विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः ।
यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्म-दात् कामम् अच्युतात्
सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमे ऽनेन यथा रमा
कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः ।
आद्य्-अन्तवन्तो भार्याया देवा वा काल-विद्रुताः
नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।
निर्वेदो ऽयं दुराशाया यन् मे जातः सुखावहः
मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः ।
येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति
तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम्
सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती ।
विहराम्य् अमुनैवाहम् आत्मना रमणेन वै
संसार-कूपे पतितं विषयैर् मुषितेक्षणम् ।
ग्रस्तं कालाहिनात्मानं को ऽन्यस् त्रातुम् अधीश्वरः
आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत्
भ्प्_11.08.043।0 श्री-ब्राह्मण उवाच
एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् ।
छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0