भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.07

11.07.001

भ्प्_11.07.001।0 श्री-भगवान् उवाच
यद् आत्थ मां महा-भाग तच्-चिकीर्षितम् एव मे ।
ब्रह्मा भवो लोक-पालाः स्वर्-वासं मे ऽभिकाङ्क्षिणः

11.07.002

मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः ।
यद्-अर्थम् अवतीर्णो ऽहम् अंशेन ब्रह्मणार्थितः

11.07.003

कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् ।
समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति

11.07.004

यर्ह्य् एवायं मया त्यक्तो लोको ऽयं नष्ट-मङ्गलः ।
भविष्यत्य् अचिरात् साधो कलिनापि निराकृतः

11.07.005

न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले ।
जनो ऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे

11.07.006

त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु ।
मय्य् आवेश्य मनः संयक् सम-दृग् विचरस्व गाम्

11.07.007

यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम्

11.07.008

पुंसो ऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् ।
कर्माकर्म-विकर्मेति गुण-दोष-धियो भिदा

11.07.009

तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदम् जगत् ।
आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे

11.07.010

ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् ।
अत्मानुभव-तुष्टात्मा नान्तरायैर् विहन्यसे

11.07.011

दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते ।
गुण-बुद्ध्या च विहितं न करोति यथार्भकः

11.07.012

सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः ।
पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः

11.07.013

भ्प्_11.07.013।0 श्री-शुक उवाच
इत्य् आदिष्टो भगवता महा-भागवतो नृप ।
उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम्

11.07.014

भ्प्_11.07.014।0 श्री-उद्धव उवाच
योगेश योग-विन्यास योगात्मन् योग-सम्भव ।
निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः

11.07.015

त्यागो ऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।
सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः

11.07.019

सो ऽहं ममाहम् इति मूढ-मतिर् विगाढस् $ त्वन्-मायया विरचितात्मनि सानुबन्धे &अम्प्;
तत् त्व् अञ्जसा निगदितं भवता यथाहं % संसाधयामि भगवन्न् अनुशाधि भृत्यम् ॥ भ्प्_11.07.016* ॥
सत्यस्य ते स्व-दृश आत्मन आत्मनो ऽन्यं $ वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे &
सत्यस्य ते स्व-दृश आत्मन आत्मनो ऽन्यं $ वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे &
सर्वे विमोहित-धियस् तव माययेमे % ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः ॥ भ्प्_11.07.017* ॥
तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं $ सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् &
तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं $ सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् &
निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो % नारायणं नर-सखं शरणं प्रपद्ये ॥ भ्प्_11.07.018*
0 श्री-भगवान् उवाच
प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः ।
समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात्

11.07.020

आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः ।
यत् प्रत्यक्षानुमानाभ्यां श्रेयो ऽसाव् अनुविन्दते

11.07.021

पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः ।
आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम्

11.07.022

एक-द्वि-त्रि-चतुस्-पादो बहु-पादस् तथापदः ।
बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया

11.07.023

अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् ।
गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः

11.07.024

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।
अवधूतस्य संवादं यदोर् अमित-तेजसः

11.07.025

अवधूतं द्वियं कञ्चिच् चरन्तम् अकुतो-भयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित्

11.07.026

भ्प्_11.07.026।0 श्री-यदुर् उवाच
कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सु-विशारदा ।
याम् आसाद्य भवाल् लोकं विद्वांश् चरति बाल-वत्

11.07.027

प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः ।
हेतुनैव समीहन्त आयुषो यशसः श्रियः

11.07.028

त्वं तु कल्पः कविर् दक्षः सु-भगो ऽमृत-भाषणः ।
न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत्

11.07.029

जनेषु दह्यमानेषु काम-लोभ-दवाग्निना ।
न तप्यसे ऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः

11.07.030

त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् ।
ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः

11.07.031

भ्प्_11.07.031।0 श्री-भगवान् उवाच
यदुनैवं महा-भागो ब्रह्मण्येन सु-मेधसा ।
पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः

11.07.032

भ्प्_11.07.032।0 श्री-ब्राह्मण उवाच
सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपश्रिताः ।
यतो बुद्धिम् उपादाय मुक्तो ऽटामीह तान् शृणु

11.07.033

पृथिवी वायुर् आकाशम् आपो ऽग्निश् चन्द्रमा रविः ।
कपोतो ऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः

11.07.034

मधु-हा हरिणो मीनः पिङ्गला कुररो ऽर्भकः ।
कुमारी शर-कृत् सर्प ऊर्णनाभिः सुपेशकृत्

11.07.035

एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः ।
शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः

11.07.036

यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज ।
तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते

11.07.037

भूतैर् आक्रम्यमाणो ऽपि धीरो दैव-वशानुगैः ।
तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम्

11.07.038

शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः ।
साधुः शिक्षेत भू-भृत्तो नग-शिष्यः परात्मताम्

11.07.039

प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः ।
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः

11.07.040

विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः ।
गुण-दोष-व्यपेतात्मा न विषज्जेत वायु-वत्

11.07.041

पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः ।
गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक्

11.07.042

अन्तर्हितश् च स्थिर-जङ्गमेषु ब्रह्मात्म-भावेन समन्वयेन ।
व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो मुनिर् नभस्त्वं विततस्य भावयेत्

11.07.043

तेजो-ऽब्-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः ।
न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान्

11.07.044

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् ।
मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः

11.07.045

तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः ।
सर्व-भक्ष्यो ऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत्

11.07.046

क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।
भुङ्क्ते सर्वत्र दातृणां दहन् प्राग्-उत्तराशुभम्

11.07.047

स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः ।
प्रविष्ट ईयते तत्-तत्- स्वरूपो ऽग्निर् इवैधसि

11.07.048

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना

11.07.049

कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ ।
नित्याव् अपि न दृश्येते आत्मनो ऽग्नेर् यथार्चिषाम्

11.07.050

गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिर् गा इव गो-पतिः

11.07.051

बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः ।
लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितो ऽर्क-वत्

11.07.052

नाति-स्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः

11.07.053

कपोतः कश्चनारण्ये कृत-नीडो वनस्पतौ ।
कपोत्या भार्यया सार्धम् उवास कतिचित् समाः

11.07.054

कपोतौ स्नेह-गुणित- हृदयौ गृह-धर्मिणौ ।
दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः

11.07.055

शय्यासनाटन-स्थान वार्ता-क्रीडाशनादिकम् ।
मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु

11.07.056

यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता ।
तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः

11.07.057

कपोती प्रथमं गर्भं गृह्णन्ती काल आगते ।
अण्डानि सुषुवे नीडे स्त-पत्युः सन्निधौ सती

11.07.058

तेषु काले व्यजायन्त रचितावयवा हरेः ।
शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः

11.07.059

प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वत्सलौ ।
शृण्वन्तौ कूजितं तासां निर्वृतौ कल-भाषितैः

11.07.060

तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः ।
प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः

11.07.061

स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया ।
विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः

11.07.062

एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ ।
परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम्

11.07.063

दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः ।
जगृहे जालम् आतत्य चरतः स्वालयान्तिके

11.07.064

कपोतश् च कपोती च प्रजा-पोषे सदोत्सुकौ ।
गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः

11.07.065

कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-सम्वृतान् ।
तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता

11.07.066

सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया ।
स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः

11.07.067

कपोतः स्वात्मजान् बद्धान् आत्मनो ऽप्य् अधिकान् प्रियान् ।
भार्यां चात्म-समां दीनो विललापाति-दुःखितः

11.07.068

अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः ।
अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः

11.07.069

अनुरूपानुकूला च यस्य मे पति-देवता ।
शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः

11.07.070

सो ऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः ।
जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः

11.07.071

तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधो ऽपतत्

11.07.072

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम्

11.07.073

एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् ।
पुष्णन् कुटुम्बं कृपणः सानुबन्धो ऽवसीदति

11.07.074

यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् ।
गृहेषु खग-वत् सक्तस् तम् आरूढ-च्युतं विदुः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc