भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.06

11.06.001

भ्प्_11.06.001।0 श्री-शुक उवाच
अथ ब्रह्मात्म-जैः देवैः प्रजेशैर् आवृतो ऽभ्यगात् ।
भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः

11.06.002

इन्द्रो मरुद्भिर् भगवान् आदित्या वसवो ऽश्विनौ ।
ऋभवो ऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः

11.06.003

गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः ।
ऋषयः पितरश् चैव स-विद्याधर-किन्नराः

11.06.004

द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः ।
वपुषा येन भगवान् नर-लोक-मनोरमः ।
यशो वितेने लोकेषु सर्व-लोक-मलापहम्

11.06.005

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः ।
व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम्

11.06.006

स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो युदूत्तमम् ।
गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम्

11.06.007

भ्प्_11.06.007।0 श्री-देवा ऊचुः
नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-प्राण-मनो-वचोभिः ।
यच् चिन्त्यते ऽन्तर् हृदि भाव-युक्तैर् मुमुक्षुभिः कर्म-मयोरु-पाशात्

11.06.020

त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं $ व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः &अम्प्;
नैतैर् भवान् अजित कर्मभिर् अज्यते वै % यत् स्वे सुखे ऽव्यवहिते ऽभिरतो ऽनवद्यः ॥ भ्प्_11.06.008* ॥
शुद्धिर् नृणां न तु तथेड्य दुराशयानां $ विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः &
शुद्धिर् नृणां न तु तथेड्य दुराशयानां $ विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः &
सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- % सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ भ्प्_11.06.009* ॥
स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः $ क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः &
स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः $ क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः &
यः सात्वतैः सम-विभूतय आत्मवद्भिर् % व्यूहे ऽर्चितः सवनशः स्वर्-अतिक्रमाय ॥ भ्प्_11.06.010* ॥
यस् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ $ त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा &
यस् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ $ त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा &
अध्यात्म-योग उत योगिभिर् आत्म-मायां % जिज्ञासुभिः परम-भागवतैः परीष्टः ॥ भ्प्_11.06.011* ॥
पर्युष्टया तव विभो वन-मालयेयं $ संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः &
पर्युष्टया तव विभो वन-मालयेयं $ संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः &
यः सु-प्रणीतम् अमुयार्हणम् आददन् नो % भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः ॥ भ्प्_11.06.012* ॥
केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको $ यस् ते भयाभय-करो ऽसुर-देव-चम्वोः &
केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको $ यस् ते भयाभय-करो ऽसुर-देव-चम्वोः &
स्वर्गाय साधुषु खलेष्व् इतराय भूमन् % पदः पुनातु भगवन् भजताम् अघं नः ॥ भ्प्_11.06.013* ॥
नस्य् ओत-गाव इव यस्य वशे भवन्ति $ ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः &
नस्य् ओत-गाव इव यस्य वशे भवन्ति $ ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः &
कालस्य ते प्रकृति-पूरुषयोः परस्य % शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥ भ्प्_11.06.014* ॥
अस्यासि हेतुर् उदय-स्थिति-संयमानाम् $ अव्यक्त-जीव-महताम् अपि कालम् आहुः &
अस्यासि हेतुर् उदय-स्थिति-संयमानाम् $ अव्यक्त-जीव-महताम् अपि कालम् आहुः &
सो ऽयं त्रि-णाभिर् अखिलापचये प्रवृत्तः % कालो गभीर-रय उत्तम-पूरुषस् त्वम् ॥ भ्प्_11.06.015* ॥
त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं $ धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः &
त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं $ धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः &
सो ऽयं तयानुगत आत्मन आण्ड-कोशं % हैमं ससर्ज बहिर् आवरणैर् उपेतम् ॥ भ्प्_11.06.016* ॥
तत् तस्थूषश् च जगतश् च भवान् अधीशो $ यन् माययोत्थ-गुण-विक्रिययोपनीतान् &
तत् तस्थूषश् च जगतश् च भवान् अधीशो $ यन् माययोत्थ-गुण-विक्रिययोपनीतान् &
अर्थाञ् जुषन्न् अपि हृषीक-पते न लिप्तो % ये ऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म ॥ भ्प्_11.06.017* ॥
स्मायावलोक-लव-दर्शित-भाव-हारि- $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः &
स्मायावलोक-लव-दर्शित-भाव-हारि- $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः &
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः ॥ भ्प्_11.06.018* ॥
विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः $ पादावने-ज-सरितः शमलानि हन्तुम् &
विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः $ पादावने-ज-सरितः शमलानि हन्तुम् &
आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस् % तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति ॥ भ्प्_11.06.019*
0 श्री-बादरायणिर् उवाच
इत्य् अभिष्टूय विबुधैः सेशः शत-धृतिर् हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः

11.06.021

भ्प्_11.06.021।0 श्री-ब्रह्मोवाच
भूमेर् भारावताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम्

11.06.022

धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया ।
कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा

11.06.023

अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् ।
कर्माण्य् उद्दाम-वृत्तानि हिताय जगतो ऽकृथाः

11.06.024

यानि ते चरितानीश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः

11.06.025

यदु-वंशे ऽवतीर्णस्य भवतः पुरुषोत्तम ।
शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो

11.06.026

नाधुना ते ऽखिलाधार देव-कार्यावशेषितम् ।
कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम्

11.06.027

ततः स्व-धाम परमं विशस्व यदि मन्यसे ।
स-लोकाल् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान्

11.06.028

भ्प्_11.06.028।0 श्री-भगवान् उवाच
अवधारितम् एतन् मे यद् आत्थ विबुधेश्वर ।
कृतं वः कार्यम् अखिलं भूमेर् भारो ऽवतारितः

11.06.029

तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् ।
लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः

11.06.030

यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।
गन्तास्म्य् अनेन लोको ऽयम् उद्वेलेन विनङ्क्ष्यति

11.06.031

इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः ।
यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ

11.06.032

भ्प्_11.06.032।0 श्री-शुक उवाच
इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् ।
सह देव-गणैर् देवः स्व-धाम समपद्यत

11.06.033

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदु-वृद्धान् समागतान्

11.06.034

भ्प्_11.06.034।0 श्री-भगवान् उवाच
एते वै सु-महोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।
शापश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः

11.06.035

न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः ।
प्रभासं सु-महत्-पुण्यं यास्यामो ऽद्यैव मा चिरम्

11.06.036

यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोदु-राट् ।
विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम्

11.06.037

वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् ।
भोजयित्वोषिजो विप्रान् नाना-गुणवतान्धसा

11.06.038

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम्

11.06.039

भ्प्_11.06.039।0 श्री-शुक उवाच
एवं भगवतादिष्टा यादवाः कुरु-नन्दन ।
गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन्

11.06.040

तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।
दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः

11.06.041

विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् ।
प्रणम्य शिरिसा पादौ प्राञ्जलिस् तम् अभाषत

11.06.042

भ्प्_11.06.042।0 श्री-उद्धव उवाच
देव-देवेश योगेश पुण्य-श्रवण-कीर्तन ।
संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ।
विप्र-शापं समर्थो ऽपि प्रत्यहन् न यद् ईश्वरः

11.06.043

नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि

11.06.044

तव विक्रीडितं कृष्ण नृनां परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः

11.06.045

शय्यासनाटन-स्थान- स्नान-क्रीडाशनादिषु ।
कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि

11.06.046

त्वयोपभुक्त-स्रग्-गन्ध- वासो-ऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि

11.06.047

वात-वसना य ऋषयः श्रमणा ऊर्ध्र-मन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनो ऽमलाः

11.06.048

वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः

11.06.049

स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च ।
गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम्

11.06.050

भ्प्_11.06.050।0 श्री-शुक उवाच
एवं विज्ञापितो राजन् भगवान् देवकी-सुतः ।
एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc