भागवत पुराण · अध्याय 11.05
भ्प्_11.05.001।0 श्री-राजोवाच
भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः ।
तेषाम् अशान्त-कामानां क निष्ठाविजितात्मनाम्
भ्प्_11.05.002।0 श्री-चमस उवाच
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक्
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः
दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः ।
स्त्रियः शूद्रादयश् चैव ते ऽनुकम्प्या भवादृशाम्
विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः
कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः ।
वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः
रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः ।
दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान्
वदन्ति ते ऽन्योन्यम् उपासित-स्त्रियो गृहेषु मैथुन्य-परेषु चाशिषः ।
यजन्त्य् असृष्टान्न-विधान-दक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः
श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा ।
जात-स्मयेनान्ध-धियः सहेश्वरान् सतो ऽवमन्यन्ति हरि-प्रियान् खलाः
सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं $ यथा खम् आत्मानम् अभीष्टम् ईश्वरम् &अम्प्;
वेदोपगीतं च न शृण्वते ऽबुधा % मनो-रथानां प्रवदन्ति वार्तया ॥ भ्प्_11.05.010* ॥
लोके व्यवायामिष-मद्य-सेवा नित्या हि जन्तोर् न हि तत्र चोदना ।
व्यवस्थितिस् तेषु विवाह-यज्ञ सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा
धनं च धर्मैक-फलं यतो वै $ ज्ञानं स-विज्ञानम् अनुप्रशान्ति &अम्प्;
गृहेषु युञ्जन्ति कलेवरस्य % मृत्युं न पश्यन्ति दुरन्त-वीर्यम् ॥ भ्प्_11.05.012* ॥
यद् घ्राण-भक्षो विहितः सुरायास् तथा पशोर् आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्व-धर्मम्
ये त्व् अनेवं-विदो ऽसन्तः स्तब्धाः सद्-अभिमानिनः ।
पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान्
द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् ।
मृतके सानुबन्धे ऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः
ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् ।
त्रै-वर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते
एत आत्म-हनो ऽशान्ता अज्ञाने ज्ञान-मानिनः ।
सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः
हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः ।
तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः
भ्प्_11.05.019।0 श्री राजोवाच
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।
नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम्
भ्प्_11.05.020।0 श्री-करभाजन उवाच
कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः ।
नाना-वर्णाभिधाकारो नानैव विधिनेज्यते
कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू
मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरो ऽमलः ।
ईश्वरः पुरुषो ऽव्यक्तः परमात्मेति गीयते
त्रेतायां रक्त-वर्णो ऽसौ चतुर्-बाहुस् त्रि-मेखलः ।
हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः
तं तदा मनुजा देवं सर्व-देव-मयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः
विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते
द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः ।
श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः
तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् ।
यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः
इति द्वापर उर्व्-ईश स्तुवन्ति जगद्-ईश्वरम् ।
नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः
ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं $ तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् &अम्प्;
भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ भ्प्_11.05.033* ॥
त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं $ धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् &
त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं $ धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् &
माया-मृगं दयितयेप्सितम् अन्वधावद् % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ भ्प्_11.05.034* ॥
एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः ।
मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः
कलिं सभाजयन्त्य् आर्या गुण ज्ञाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्व-स्वार्थो ऽभिलभ्यते
न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः
कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायण-परायणाः
क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः ।
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी
कावेरी च महा-पुण्या प्रतीची च महा-नदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति वासुदेवे ऽमलाशयाः
देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम्
स्व-पाद-मूलम् भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः
भ्प्_11.05.043।0 श्री-नारद उवाच
धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः ।
जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत्
ततो ऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम्
त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम्
युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् ।
पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः
दर्शनालिङ्गनालापैः शयनासन-भोजनैः ।
आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतोः
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- $ शाल्वादयो गति-विलास-विलोकनाद्यैः &अम्प्;
ध्यायन्त आकृत-धियः शयनासनादौ % तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ भ्प्_11.05.048* ॥
मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे ।
माया-मनुष्य-भावेन गूढैश्वर्ये परे ऽव्यये
भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते
भ्प्_11.05.051।0 श्री-शुक उवाच
एतच् छ्रुत्वा महा-भागो वसुदेवो ऽति-विस्मितः ।
देवकी च महा-भागा जहतुर् मोहम् आत्मनः
इतिहासम् इमं पुण्यं धारयेद् यः समाहितः ।
स विधूयेह शमलं ब्रह्म-भूयाय कल्पते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0