भागवत पुराण · अध्याय 11.04
भ्प्_11.04.001।0 श्री-राजोवाच
यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः ।
चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः
भ्प्_11.04.002।0 श्री-द्रुमिल उवाच
यो वा अनन्तस्य गुनान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः ।
रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः $ पुरं विराजं विरचय्य तस्मिन् &अम्प्;
स्वांशेन विष्टः पुरुषाभिधानम् % अवाप नारायण आदि-देवः ॥ भ्प्_11.04.003* ॥
यत्-काय एष भुवन-त्रय-सन्निवेशो $ यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि &
यत्-काय एष भुवन-त्रय-सन्निवेशो $ यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि &
ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा % सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता ॥ भ्प्_11.04.004* ॥
आदाव् अभूच् छत-धृती रजसास्य सर्गे $ विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः &
आदाव् अभूच् छत-धृती रजसास्य सर्गे $ विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः &
रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य % इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ भ्प्_11.04.005* ॥
धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां $ नारायणो नर ऋषि-प्रवरः प्रशान्तः &
धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां $ नारायणो नर ऋषि-प्रवरः प्रशान्तः &
नैष्कर्म्य-लक्षणम् उवाच चचार कर्म % यो ऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः ॥ भ्प्_11.04.006* ॥
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति $ कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् &
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति $ कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् &
गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः % स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः ॥ भ्प्_11.04.007* ॥
विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः $ प्राह प्रहस्य गत-विस्मय एजमानान् &
विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः $ प्राह प्रहस्य गत-विस्मय एजमानान् &
मा भैर् विभो मदन मारुत देव-वध्वो % गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् ॥ भ्प्_11.04.008* ॥
इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः $ स-व्रीड-नम्र-शिरसः स-घृणं तम् ऊचुः &
इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः $ स-व्रीड-नम्र-शिरसः स-घृणं तम् ऊचुः &
नैतद् विभो त्वयि परे ऽविकृते विचित्रं % स्वाराम-धीर-निकरानत-पाद-पद्मे ॥ भ्प्_11.04.009* ॥
त्वां सेवतां सुर-कृता बहवो ऽन्तरायाः $ स्वौको विलङ्घ्य परमं व्रजतां पदं ते &
त्वां सेवतां सुर-कृता बहवो ऽन्तरायाः $ स्वौको विलङ्घ्य परमं व्रजतां पदं ते &
नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान् % धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ भ्प्_11.04.010* ॥
क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् $ अस्मान् अपार-जलधीन् अतितीर्य केचित् &
क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् $ अस्मान् अपार-जलधीन् अतितीर्य केचित् &
क्रोधस्य यान्ति विफलस्य वशं पदे गोर् % मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति ॥ भ्प्_11.04.011* ॥
इति प्रगृणतां तेषां स्त्रियो ऽत्य्-अद्भुत-दर्शनाः ।
दर्शयाम् आस शुश्रूषां स्व्-अर्चिताः कुर्वतीर् विभुः
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः ।
गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः
तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव ।
आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम्
ओम् इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः ।
उर्वशीम् अप्सरः-श्रेष्ठां पुरस्कृत्य दिवं ययुः
इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् ।
ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः
हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं $ दत्तः कुमार ऋषभो भगवान् पिता नः &अम्प्;
विष्णुः शिवाय जगतां कलयावतिर्णस् % तेनाहृता मधु-भिदा श्रुतयो हयास्ये ॥ भ्प्_11.04.017* ॥
गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये $ क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् &
गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये $ क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् &
कौर्मे धृतो ऽद्रिर् अमृतोन्मथने स्व-पृष्ठे % ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् ॥ भ्प्_11.04.018* ॥
संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च $ शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् &
संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च $ शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् &
देव-स्त्रियो ऽसुर-गृहे पिहिता अनाथा % जघ्ने ऽसुरेन्द्रम् अभयाय सतां नृसिंहे ॥ भ्प्_11.04.019* ॥
देवासुरे युधि च दैत्य-पतीन् सुरार्थे $ हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः &
देवासुरे युधि च दैत्य-पतीन् सुरार्थे $ हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः &
भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां % याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः ॥ भ्प्_11.04.020* ॥
निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो $ रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः &
निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो $ रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः &
सो ऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं % सीता-पतिर् जयति लोक-मल-घ्न-कीऋतिः ॥ भ्प्_11.04.021* ॥
भूमेर् भरावतरणाय यदुष्व् अजन्मा $ जातः करिष्यति सुरैर् अपि दुष्कराणि &
भूमेर् भरावतरणाय यदुष्व् अजन्मा $ जातः करिष्यति सुरैर् अपि दुष्कराणि &
वादैर् विमोहयति यज्ञ-कृतो ऽतद्-अर्हान् % शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते ॥ भ्प्_11.04.022* ॥
एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः ।
भूरीणि भूरि-यशसो वर्णितानि महा-भुज
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0