भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.03

11.03.001

भ्प्_11.03.001।0 श्री-राजोवाच
परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् ।
मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः

11.03.002

नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् ।
संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम्

11.03.003

भ्प्_11.03.003।0 श्री-अन्तरीक्ष उवाच
एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज ।
ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये

11.03.004

एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः ।
एकधा दशधात्मानं विभजन् जुषते गुणान्

11.03.005

गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः ।
मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते

11.03.006

कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् ।
तत् तत् कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम्

11.03.007

इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् ।
आभूत-सम्प्लवात् सर्ग- प्रलयाव् अश्नुते ऽवशः

11.03.008

धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् ।
अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति

11.03.009

शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि ।
तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति

11.03.010

पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः ।
दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः

11.03.011

संवर्तको मेघ-गणो वर्षति स्म शतं समाः ।
धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विराट्

11.03.012

ततो विराजम् उत्सृज्य् वैराजः पुरुषो नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः

11.03.013

वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते

11.03.014

हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृत-स्पर्शो ऽवकाशेन वायुर् नभसि लीयते ।
कालात्मना हृत-गुणं नभ आत्मनि लीयते

11.03.015

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप ।
प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि

11.03.016

एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी ।
त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि

11.03.017

भ्प्_11.03.017।0 श्री-राजोवाच
यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः ।
तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम्

11.03.018

भ्प्_11.03.018।0 श्री-प्रबुद्ध उवाच
कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम्

11.03.019

नित्यार्तिदेन वित्तेन दुर्लभेनात्म-मृत्युना ।
गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः

11.03.020

एवं लोकं परम् विद्यान् नश्वरं कर्म-निर्मितम् ।
स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम्

11.03.021

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम्

11.03.022

तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः

11.03.023

सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम्

11.03.024

शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्मचर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः

11.03.025

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनं सन्तोषं येन केनचित्

11.03.026

श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि ।
मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि

11.03.027

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम्

11.03.028

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्

11.03.029

एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु

11.03.030

परस्परानुकथनं पावनं भगवद्-यशः ।
मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः

11.03.031

स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम्

11.03.033

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् $ धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः &अम्प्;
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं % भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ भ्प्_11.03.032* ॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया ।
नारायण-परो मायाम् अञ्जस् तरति दुस्तराम्

11.03.034

भ्प्_11.03.034।0 श्री-राजोवाच
नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः

11.03.039

भ्प्_11.03.035।0 श्री-पिप्पलायन उवाच
स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य $ यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च &
स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य $ यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च &
देहेन्द्रियासु-हृदयानि चरन्ति येन % सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥ भ्प्_11.03.035* ॥
नैतन् मनो विशति वाग् उत चक्षुर् आत्मा $ प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः &
नैतन् मनो विशति वाग् उत चक्षुर् आत्मा $ प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः &
शब्दो ऽपि बोधक-निषेधतयात्म-मूलम् % अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः ॥ भ्प्_11.03.036* ॥
सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ $ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् &
सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ $ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् &
ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति % ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ भ्प्_11.03.037* ॥
नात्मा जजान न मरिष्यति नैधते ऽसौ $ न क्षीयते सवन-विद् व्यभिचारिणां हि &
नात्मा जजान न मरिष्यति नैधते ऽसौ $ न क्षीयते सवन-विद् व्यभिचारिणां हि &
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं % प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ भ्प्_11.03.038* ॥
अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणे ऽहमि च प्रसुप्ते कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः

11.03.041

यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या $ चेतो-मलानि विधमेद् गुण-कर्म-जानि &अम्प्;
तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं % शाक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥ भ्प्_11.03.040*
0 श्री-राजोवाच
कर्म-योगं वदत नः पुरुषो येन संस्कृतः ।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम्

11.03.042

एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके ।
नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम्

11.03.043

भ्प्_11.03.043।0 श्री-आविर्होत्र उवाच
कर्माकर्म विकर्मेति वेद-वादो न लौकिकः ।
वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः

11.03.044

परोक्ष-वादो वेदो ऽयं बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा

11.03.045

नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः ।
विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः

11.03.046

वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः

11.03.047

य आशु हृदय-ग्रन्थिं निर्जिहीऋषुः परात्मनः ।
विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम्

11.03.048

लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः ।
महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः

11.03.049

शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः ।
पिण्डं विशोध्य सन्न्यास- कृत-रक्षो ऽर्चयेद् धरिम्

11.03.050

अर्चादौ हृदये चापि यथा-लब्धोपचारकैः ।
द्रव्य-क्षित्य्-आत्म-लिण्गानि निष्पाद्य प्रोक्ष्य चासनम्

11.03.051

पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः ।
हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत्

11.03.052

साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः ।
पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः

11.03.053

गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः ।
साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद् धरिम्

11.03.054

आत्मानम् तन्-मयम् ध्यायन् मूर्तिं सम्पूजयेद् धरेः ।
शेषाम् आधाय शिरसा स्व-धाम्न्य् उद्वास्य सत्-कृतम्

11.03.055

एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः ।
यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc