भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 11.02

11.02.001

भ्प्_11.02.001।0 श्री-शुक उवाच
गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासन-लालसः

11.02.002

को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् ।
न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः

11.02.003

तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् ।
अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत्

11.02.004

भ्प्_11.02.004।0 श्री-वसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् ।
कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम्

11.02.005

भूतानां देव-चरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम्

11.02.006

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः

11.02.007

ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव ।
यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात्

11.02.008

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् ।
अपूजयं न मोक्षाय मोहितो देव-मायया

11.02.009

यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् ।
मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सु-व्रत

11.02.010

भ्प्_11.02.010।0 श्री-शुक उवाच
राजन्न् एवं कृत-प्रश्नो वसुदेवेन धीमता ।
प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः

11.02.011

भ्प्_11.02.011।0 श्री-नारद उवाच
सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ ।
यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान्

11.02.012

श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि

11.02.013

त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः ।
स्मारितो भगवान् अद्य देवो नारायणो मम

11.02.014

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।
आर्षभाणां च संवादं विदेहस्य महात्मनः

11.02.015

प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।
तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः

11.02.016

तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया ।
अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पारगम्

11.02.017

तेषां वै भरतो ज्येष्ठो नारायण-परायणः ।
विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम्

11.02.018

स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् ।
उपासीनस् तत्-पदवीं लेभे वै जनृनभिस् त्रिभिः

11.02.019

तेषां नव नव-द्वीप- पतयो ऽस्य समन्ततः ।
कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्विजातयः

11.02.020

नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः ।
श्रमणा वात-रसना आत्म-विद्या-विशारदाः

11.02.021

कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः

11.02.022

त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् ।
आत्मनो ऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम्

11.02.024

अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य- $ गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् &अम्प्;
मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ- % विद्याधर-द्विज-गवां भुवनानि कामम् ॥ भ्प्_11.02.023* ॥
त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया ।
वितायमानम् ऋषिभिर् अजनाभे महात्मनः

11.02.025

तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप ।
यजमानो ऽग्नयो विप्राः सर्व एवोपतस्थिरे

11.02.026

विदेहस् तान् अभिप्रेत्य नारायण-परायणान् ।
प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः

11.02.027

तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव ।
पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः

11.02.028

भ्प्_11.02.028।0 श्री-विदेह उवाच
मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विसः ।
विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि

11.02.029

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम्

11.02.030

अत आत्यन्तिकं क्षेमं पृच्छामो भवतो ऽनघाः ।
संसारे ऽस्मिन् क्षणार्धो ऽपि सत्-सङ्गः शेवधिर् नृणाम्

11.02.031

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।
यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः

11.02.032

भ्प्_11.02.032।0 श्री-नारद उवाच
एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।
प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्यर्त्विजं नृपम्

11.02.033

भ्प्_11.02.033।0 श्री-कविर् उवाच
मन्ये ऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः

11.02.034

ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान्

11.02.035

यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह

11.02.036

कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत्

11.02.037

भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययो ऽस्मृतिः ।
तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा

11.02.038

अविद्यमानो ऽप्य् अवभाति हि द्वयो ध्यातुर् धिया स्वप्न-मनोरथौ यथा ।
तत् कर्म-सङ्कल्प-विकल्पकं मनो बुधो निरुन्ध्याद् अभयं ततः स्यात्

11.02.039

शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः

11.02.040

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः

11.02.041

खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः

11.02.042

भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम्

11.02.043

इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात्

11.02.044

भ्प्_11.02.044।0 श्री-राजोवाच
अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् ।
यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः

11.02.045

भ्प्_11.02.045।0 श्री-हविर् उवाच
सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः

11.02.046

ईस्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः

11.02.047

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः

11.02.048

गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः

11.02.049

देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः

11.02.050

न काम-कर्म-बीजानां यस्य चेतसि सम्भवः ।
वासुदेवैक-निलयः स वै भागवतोत्तमः

11.02.051

न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः ।
सज्जते ऽस्मिन्न् अहं-भावो देहे वै स हरेः प्रियः

11.02.052

न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा ।
सर्व-भूत-समः शान्तः स वै भागवतोत्तमः

11.02.054

त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- $ स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् &अम्प्;
न चलति भगवत्-पदारविन्दाल् % लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ भ्प्_11.02.053* ॥
भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः

11.02.055

विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः ।
प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc