भागवत पुराण · अध्याय 11.01
तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं $ विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-पर श्रीर् यद्-अर्थे ऽन्य-यत्नः &अम्प्;
यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः % कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य ॥ भ्प्_10.90.047* ॥
जयति जन-निवासो देवकी-जन्म-वादो $ यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् &
जयति जन-निवासो देवकी-जन्म-वादो $ यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् &
स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन % व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ भ्प्_10.90.048* ॥
इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- $ लीला-तनोस् तद्-अनुरूप-विडम्बनानि &
इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- $ लीला-तनोस् तद्-अनुरूप-विडम्बनानि &
कर्माणि कर्म-कषणानि यदूत्तमस्य % श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ भ्प्_10.90.049* ॥
मर्त्यस् तयानुसवम् एधितया मुकुन्द $ श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति &
मर्त्यस् तयानुसवम् एधितया मुकुन्द $ श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति &
तद् धाम दुस्तर-कृतान्त-जवापवर्गं % ग्रामाद् वनं क्षिति-भुजो ऽपि ययुर् यद्-अर्थाः ॥ भ्प्_10.90.050*
0 श्री-शुक उवाच
कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः ।
भुवो ऽवतारयद् भारं जविष्ठं जनयन् कलिम्
ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैर् $ दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् &अम्प्;
कृत्वा निमित्तम् इतरेतरतः समेतान् % हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥ भ्प्_11.01.002* ॥
भू-भार-राज-पृतना यदुभिर् निरस्य $ गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः &
भू-भार-राज-पृतना यदुभिर् निरस्य $ गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः &
मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं % यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ भ्प्_11.01.003* ॥
नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् $ मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् &
नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् $ मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् &
अन्तः कलिं यदु-कुलस्य विधाय वेणु- % स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ भ्प्_11.01.004* ॥
एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः ।
शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः
स्व-मूर्त्या लोक-लावण्य- निर्मुक्त्या लोचनं नृणाम् ।
गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः
आच्छिद्य कीर्तिं सु-श्लोकां वितत्य ह्य् अञ्जसा नु कौ ।
तमो ऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः
भ्प्_11.01.008।0 श्री-राजोवाच
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम्
यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम ।
कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे
भ्प्_11.01.010।0 श्री-बादरायणिर् उवाच
बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं $ कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः &
बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं $ कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः &
आस्थाय धाम रममाण उदार-कीऋतिः % संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः ॥ भ्प्_11.01.010* ॥
कर्मानि पुण्य-निवहानि सु-मङ्गलानि $ गायज्-जगत्-कलि-मलापहराणि कृत्वा &
कर्मानि पुण्य-निवहानि सु-मङ्गलानि $ गायज्-जगत्-कलि-मलापहराणि कृत्वा &
कालात्मना निवसता यदु-देव-गेहे % पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ भ्प्_11.01.011* ॥
विश्वामित्रो ऽसितः कण्वो $ दुर्वासा भृगुर् अङ्गिराः &
विश्वामित्रो ऽसितः कण्वो $ दुर्वासा भृगुर् अङ्गिराः &
कश्यपो वामदेवो ऽत्रिर् % वसिष्ठो नारदादयः ॥ भ्प्_11.01.012* ॥
क्रीडन्तस् तान् उपव्रज्य कुमारा यदु-नन्दनाः ।
उपसङ्गृह्य पप्रच्छुर् अविनीता विनीत-वत्
ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतम् ।
एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा
प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः ।
प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति
एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप ।
जनयिष्यति वो मन्दा मुषलं कुल-नाशनम्
तच् छ्रुत्वा ते ऽति-सन्त्रस्ता विमुच्य सहसोदरम् ।
साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्मयम्
किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः ।
इति विह्वलिता गेहान् आदाय मुषलं ययुः
तच् चोपनीय सदसि परिम्लान-मुख-श्रियः ।
राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ
श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप ।
विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः
तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः ।
समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम्
कश्चिन् मत्स्यो ऽग्रसील् लोहं चूर्णानि तरलैस् ततः ।
उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः
मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे ।
तस्योदर-गतं लोहं स शल्ये लुब्धको ऽकरोत्
भगवान् ज्ञात-सर्वार्थ ईश्वरो ऽपि तद्-अन्यथा ।
कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0