भागवत पुराण · अध्याय 10.90
भ्प्_10.90.001।0 श्री-शुक उवाच
सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः ।
सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः
स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः ।
कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्-द्युभिः
नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः ।
स्व्-अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः
उद्यानोपवनाढ्यायां पुष्पित-द्रुम-राजिषु ।
निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः
रेमे षोडश-साहस्र- पत्नीनां एक-वल्लभः ।
तावद् विचित्र-रूपो ऽसौ तद्-गेहेषु महर्द्धिषु
प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः ।
वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।
कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम्
उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् ।
वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः
सिच्यमानो ऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः ।
प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्ष-राड् इव
ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः $ सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः &अम्प्;
कान्तं स्म रेचक-जिहीर्षययोपगुह्य % जात-स्मरोत्स्मय-लसद्-वदना विरेजुः ॥ भ्प्_10.90.010* ॥
कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् $ क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः &
कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् $ क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः &
सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो % रेमे करेणुभिर् इवेभ-पतिः परीतः ॥ भ्प्_10.90.011* ॥
नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् ।
क्रीडालङ्कार-वासांसि कृष्णो ऽदात् तस्य च स्त्रियः
कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः ।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः
ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् ।
चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु
भ्प्_10.90.015।0 महिष्य ऊचुः
कुररि विलपसि त्वं वीत-निद्रा न शेषे $ स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः &
कुररि विलपसि त्वं वीत-निद्रा न शेषे $ स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः &
वयम् इव सखि कच्चिद् गाढ-निर्विद्ध-चेता % नलिन-नयन-हासोदार-लीलेक्षितेन ॥ भ्प्_10.90.015* ॥
नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् $ त्वं रोरवीषि करुणं बत चक्रवाकि &
नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् $ त्वं रोरवीषि करुणं बत चक्रवाकि &
दास्यं गत वयम् इवाच्युत-पाद-जुष्टां % किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ भ्प्_10.90.016* ॥
भो भोः सदा निष्टनसे उदन्वन्न् अलब्ध-निद्रो ऽधिगत-प्रजागरः ।
किम् वा मुकुन्दापहृतात्म-लाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम्
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो $ क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि &अम्प्;
कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं % विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः ॥ भ्प्_10.90.018* ॥
किं न्व् आचरितम् अस्माभिर् मलयानिल ते ऽप्रियम् ।
गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम्
मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं $ श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः &अम्प्;
अत्य्-उत्कण्ठः शवल-हृदयो ऽस्मद्-विधो बाष्प-धाराः % स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःख-दस् तत्-प्रसङ्गः ॥ भ्प्_10.90.020* ॥
प्रिय-राव-पदानि भाषसे मृत-सञ्जीविकयानया गिरा ।
करवाणि किम् अद्य ते प्रियं वद मे वल्गित-कण्ठ कोकिल
न चलसि न वदस्य् उदार-बुद्धे क्षिति-धर चिन्तयसे महान्तम् अर्थम् ।
अपि बत वसुदेव-नन्दनाङ्घ्रिं वयम् इव कामयसे स्तनैर् विधर्तुम्
शुष्यद्-ध्रदाः करशिता बत सिन्धु-पत्न्यः $ सम्प्रत्य् अपास्त-कमल-श्रिय इष्ट-भर्तुः &अम्प्;
यद्वद् वयं मधु-पतेः प्रणयावलोकम् % अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म ॥ भ्प्_10.90.023* ॥
हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां $ दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा &
हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां $ दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा &
किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं % क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ भ्प्_10.90.024*
0 श्री-शुक उवाच
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम्
श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किम् वर्ण्यते तपः
एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः ।
गृहं धर्मार्थ-कामानां मुहुश् चादर्शयत् पदम्
आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् ।
आसन् षोडश-साहस्रं महिष्यश् च शताधिकम्
तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः ।
रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः
एकैकस्यां दश दश कृष्णो ऽजीजनद् आत्मजान् ।
यावत्य आत्मनो भार्या अमोघ-गतिर् ईश्वरः
तेषाम् उद्दाम-वीर्याणाम् अष्टा-दश महा-रथाः ।
आसन्न् उदार-यशसस् तेषां नामानि मे शृणु
प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च ।
साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृको ऽरुणः
पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः ।
चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च
एतेषाम् अपि राजेन्द्र तनु-जानां मधु-द्विषः ।
प्रद्युम्न आसीत् प्रथमः पितृ-वद् रुक्मिणी-सुतः
स रुक्मिणो दुहितरम् उपयेमे महा-रथः ।
तस्यां ततो ऽनिरुद्धो ऽभूत् नागायत-बलान्वितः
स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।
वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः
प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः ।
सुबाहोः शान्तसेनो ऽभूच् छतसेनस् तु तत्-सुतः
न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः ।
अल्पायुषो ऽल्प-वीर्याश् च अब्रह्मण्याश् च जज्ञिरे
यदु-वंश-प्रसूतानां पुंसां विख्यात-कर्मणाम् ।
सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप
तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च ।
आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम्
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानाम् अयुत- लक्षेणास्ते स आहुकः
देवासुराहव-हता दैतेया ये सु-दारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे
तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप
तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः ।
ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः
शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0