भागवत पुराण · अध्याय 10.89
भ्प्_10.89.001।0 श्री-शुक उवाच
सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत ।
वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान्
तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप ।
तज्-ज्ञप्त्यै प्रेषयाम् आसुः सो ऽभ्जगाद् ब्रह्मणः सभाम्
न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया ।
तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा
स आत्मन्य् उत्थितम् मन्युम् आत्मजायात्मना प्रभुः ।
अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः
ततः कैलासम् अगमत् स तं देवो महेश्वरः ।
परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा
नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह ।
शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः
पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा ।
अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः
शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् ।
तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः
स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् ।
आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।
अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो
पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् ।
पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा
अद्याहं भगवंल् लक्ष्म्या आसम् एकान्त-भाजनम् ।
वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः
भ्प्_10.89.012।0 श्री-शुक उवाच
एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा ।
निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठो ऽश्रु-लोचनः
पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् ।
स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत्
तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः ।
भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम्
धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् ।
ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम्
मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् ।
अकिञ्चनानां साधूनां यम् आहुः परमां गतिम्
सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः ।
भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः
त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः ।
गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम्
भ्प्_10.89.019।0 श्री-शुक उवाच
इत्थं सारस्वता विप्रा नृणाम् संशय-नुत्तये ।
पुरुषस्य पदाम्भोज- सेवया तद्-गतिं गताः
भ्प्_10.89.020।0 श्री-सूत उवाच
इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध $ पीयूषं भव-भय-भित् परस्य पुंसः &
इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध $ पीयूषं भव-भय-भित् परस्य पुंसः &
सु-श्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णम् % पान्थो ऽध्व-भ्रमण-परिश्रमं जहाति ॥ भ्प्_10.89.020*
0 श्री-शुक उवाच
एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः ।
जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत
विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः ।
इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः
ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः ।
क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतो ऽर्भकः
हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् ।
प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः
एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च ।
विसृज्य स नृप-द्वारि तां गाथां समगायत
ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके ।
परेते नवमे बाले ब्राह्मणं समभाषत
किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः ।
राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्रम् आसते
धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः ।
ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः
अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोर् इह ।
अनिस्तीर्ण-प्रतिज्ञो ऽग्निं प्रवेक्ष्ये हत-कल्मषः
भ्प्_10.89.030।0 श्री-ब्राह्मण उवाच
सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः ।
अनिरुद्धो ऽप्रति-रथो न त्रातुं शक्नुवन्ति यत्
तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः ।
त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम्
भ्प्_10.89.032।0 श्री-अर्जुन उवाच
नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च ।
अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः
मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् ।
मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो
एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप ।
जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन्
प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः ।
पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः
स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् ।
दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे
न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः ।
तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम्
ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः ।
सद्यो ऽदर्शनम् आपेदे स-शरीरो विहायसा
तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ ।
मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीब-कत्थनम्
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यस्य शेकुः परित्रातुं को ऽन्यस् तद्-अवितेश्वरः
धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः ।
दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः
एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः ।
ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः
विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् ।
आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ
रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः ।
ततो ऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः ।
अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता
दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना ।
ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति
इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः ।
दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत्
सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ ।
लोकालोकं तथातीत्य विवेश सु-महत् तमः
तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः ।
तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ
तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः ।
सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः
तमः सु-घोरं गहनं कृतं महद् $ विदारयद् भूरि-तरेण रोचिषा &अम्प्;
मनो-जवं निर्विविशे सुदर्शनं % गुण-च्युतो राम-शरो यथा चमूः ॥ भ्प्_10.89.050* ॥
द्वारेण चक्रानुपथेन तत् तमः परं परं ज्योतिर् अनन्त-पारम् ।
समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधे ऽक्षिणी उभे
ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् ।
तत्राद्भुतं वै भवनं द्युमत्-तमं भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम्
तस्मिन् महा-भोगम् अनन्तम् अद्भुतं $ सहस्र-मूर्धन्य-फणा-मणि-द्युभिः &अम्प्;
विभ्राजमानं द्वि-गुणेक्षणोल्बणं % सिताचलाभं शिति-कण्ठ-जिह्वम् ॥ भ्प्_10.89.053* ॥
ददर्श तद्-भोग-सुखासनं विभुं $ महानुभावं पुरुषोत्तमोत्तमम् &
ददर्श तद्-भोग-सुखासनं विभुं $ महानुभावं पुरुषोत्तमोत्तमम् &
सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं % प्रसन्न-वक्त्रं रुचिरायतेक्षणम् ॥ भ्प्_10.89.054* ॥
महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् &
महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् &
प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ भ्प्_10.89.055* ॥
महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् &
महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् &
प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ भ्प्_10.89.056* ॥
ववन्द आत्मानम् अनन्तम् अच्युतो जिष्णुश् च तद्-दर्शन-जात-साध्वसः ।
ताव् आह भूमा परमेष्ठिनां प्रभुर् बेद्धाञ्जली स-स्मितम् ऊर्जया गिरा
द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता भुवि धर्म-गुप्तये ।
कलावतीर्णाव् अवनेर् भरासुरान् हत्वेह भूयस् त्वरयेतम् अन्ति मे
पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी ।
धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम्
इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना ।
ओं इत्य् आनम्य भूमानम् आदाय द्विज-दारकान्
न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् ।
विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः
निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः ।
यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम्
इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् ।
बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-उर्जितैर् मखैः
प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु ।
यथा-कालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः
हत्वा नृपान् अधर्मिष्ठान् घाटयित्वार्जुनादिभिः ।
अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0