भागवत पुराण · अध्याय 10.88
यो ऽस्योत्प्रेक्षक आदि-मध्य-निधने यो ऽव्यक्त-जीवेश्वरो $ यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः &अम्प्;
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा % तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ भ्प्_10.87.050*
0 श्री-राजोवाच
देवासुर-मनुष्येसु ये भजन्त्य् अशिवं शिवम् ।
प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम्
एतद् वेदितुम् इच्छामः सन्देहो ऽत्र महान् हि नः ।
विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः
भ्प्_10.88.003।0 श्री-शुक उवाच
शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः ।
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा
ततो विकारा अभवन् षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम्
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत्
निवृत्तेष्व् अश्व-मेधेषु राजा युष्मत्-पितामहः ।
शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम्
स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः ।
नृणां निःश्रेयसार्थाय यो ऽवतीर्णो यदोः कुले
भ्प्_10.88.008।0 श्री-भगवान् उवाच
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः ।
ततो ऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम्
स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया ।
मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम्
तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् ।
विज्ञायात्मतया धीरः संसारात् परिमुच्यते
अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः ।
ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः ।
मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते
भ्प्_10.88.012।0 श्री-शुक उवाच
शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः ।
सद्यः शाप-प्रसादो ऽङ्ग शिवो ब्रह्मा न चाच्युतः
अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् ।
वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम्
वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।
दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः
स आह देवं गिरिशम् उपाधावाशु सिद्ध्यसि ।
यो ऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति
दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव ।
ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम्
इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः ।
केदार आत्म-क्रव्येण जुह्वानो ग्नि-मुखं हरम्
देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमे ऽहनि ।
शिरो ऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम्
तदा महा-कारुणिको स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितो ऽनलात् ।
निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः
तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् ।
प्रीयेय तोयेन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अर्द्यते वृथा
देवं स वव्रे पापीयान् वरं भूत-भयावहम् ।
यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति
तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।
ओं इति प्रहसंस् तस्मै ददे ऽहेर् अमृतं यथा
स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः ।
स्व-हस्तं धातुम् आरेभे सो ऽबिभ्यत् स्व-कृताच् छिवः
तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः ।
यावद् अन्तं दिवो भूमेः कष्ठानाम् उदगाद् उदक्
अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः ।
ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम्
यत्र नारायणः साक्षान् न्यासिनां परमो गतिः ।
शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः
तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।
दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया
मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् ।
अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत्
भ्प्_10.88.029।0 श्री-भगवान् उवाच
शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः ।
क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक्
यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो ।
भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते
भ्प्_10.88.031।0 श्री-शुक उवाच
एवं भगवता पृष्टो वचसामृत-वर्षिणा ।
गत-क्लमो ऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम्
भ्प्_10.88.032।0 श्री-भगवान् उवाच
एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि ।
यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट्
यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ ।
तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम्
यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ ।
तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः
इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः ।
भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात्
अथापतद् भिन्न-शिराः व्रजाहत इव क्षणात् ।
जय-शब्दो नमः-शब्दः साधु-शब्दो ऽभवद् दिवि
मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे ।
देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः
मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः ।
अहो देव महा-देव पापो ऽयं स्वेन पाप्मना
हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः ।
क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ
य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः ।
गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथारिभिः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0