भागवत पुराण · अध्याय 10.87
भ्प्_10.87.001।0 श्री-परीक्षिद् उवाच
ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात् सद्-असतः परे
भ्प्_10.87.002।0 श्री-शुक उवाच
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः ।
मात्रार्थं च भवार्थं च आत्मने ऽकल्पनाय च
सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेशां पूर्व-जैर् धृता ।
श्र्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादम् ऋषेर् नारायणस्य च
एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः ।
सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम्
यो वै भारत-वर्षे ऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।
धर्म-ज्ञान-शमोपेतम् आ-कल्पाद् आस्थितस् तपः
तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः ।
परीतं प्रणतो ऽपृच्छद् इदम् एव कुरूद्वह
तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वताम् इदम् ।
यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम्
भ्प्_10.87.009।0 श्री-भगवान् उवाच
स्वायम्भुव ब्रह्म-सत्रं जन-लोके ऽभवत् पुरा ।
तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम्
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् ।
ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि
तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः ।
अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे
भ्प्_10.87.012।0 श्री-सनन्दन उवाच
स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः ।
तद्-अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम्
यथा शयानं संराजं वन्दिनस् तत्-पराक्रमैः ।
प्रत्यूषे ऽभेत्य सु-श्लोकैर् बोधयन्त्य् अनुजीविनः
भ्प्_10.87.014।0 श्री-श्रुतय ऊचुः
जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां $ त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः &
जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां $ त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः &
अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते % क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः ॥ भ्प्_10.87.014* ॥
बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया $ यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् &
बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया $ यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् &
अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं % कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् ॥ भ्प्_10.87.015* ॥
इति तव सूरयस् त्र्य्-अधिपते ऽखिल-लोक-मल- $ क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः &
इति तव सूरयस् त्र्य्-अधिपते ऽखिल-लोक-मल- $ क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः &
किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः % परम भजन्ति ये पदम् अजस्र-सुखानुभवम् ॥ भ्प्_10.87.016* ॥
दृतय इव श्वसन्त्य् असु-भृतो यदि ते ऽनुविधा $ महद्-अहम्-आदयो ऽण्डम् असृजन् यद्-अनुग्रहतः &
दृतय इव श्वसन्त्य् असु-भृतो यदि ते ऽनुविधा $ महद्-अहम्-आदयो ऽण्डम् असृजन् यद्-अनुग्रहतः &
पुरुष-विधो ऽन्वयो ऽत्र चरमो ऽन्न-मयादिषु यः % सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् ॥ भ्प्_10.87.017* ॥
उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः $ परिसर-पद्धतिं हृदयम् आरुणयो दहरम् &
उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः $ परिसर-पद्धतिं हृदयम् आरुणयो दहरम् &
तत उदगाद् अनन्त तव धाम शिरः परमं % पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे ॥ भ्प्_10.87.018* ॥
स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया $ तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः &
स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया $ तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः &
अथ वितथास्व् अमूष्व् अवितथां तव धाम समं % विरज-धियो ऽनुयन्त्य् अभिविपण्यव एक-रसम् ॥ भ्प्_10.87.019* ॥
स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं $ तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् &
स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं $ तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् &
इति नृ-गतिं विविच्य कवयो निगमावपनं % भवत उपासते ऽङ्घ्रिम् अभवम् भुवि विश्वसिताः ॥ भ्प्_10.87.020* ॥
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् $ चरित-महामृताब्धि-परिवर्त-परिश्रमणाः &
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् $ चरित-महामृताब्धि-परिवर्त-परिश्रमणाः &
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते % चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ भ्प्_10.87.021* ॥
त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् $ चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च &
त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् $ चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च &
न बत रमन्त्य् अहो असद्-उपासनयात्म-हनो % यद्-अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः ॥ भ्प्_10.87.022* ॥
निभृत-मरुन्-मनो-ऽक्ष-दृढ-योग-युजो हृदि यन् $ मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् &
निभृत-मरुन्-मनो-ऽक्ष-दृढ-योग-युजो हृदि यन् $ मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् &
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो % वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥ भ्प्_10.87.023* ॥
क इह नु वेद बतावर-जन्म-लयो ऽग्र-सरं $ यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये &
क इह नु वेद बतावर-जन्म-लयो ऽग्र-सरं $ यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये &
तर्हि न सन् न चासद् उभयं न च काल-जवः % किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ भ्प्_10.87.024* ॥
जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां $ विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः &
जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां $ विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः &
त्रि-गुण-मयः पुमान् इति भिदा यद् अबोध-कृता % त्वयि न ततः परत्र स भवेद् अवबोध-रसे ॥ भ्प्_10.87.025* ॥
सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् आ-मनुजात् $ सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः &
सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् आ-मनुजात् $ सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः &
न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया % स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ भ्प्_10.87.026* ॥
तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया $ त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः &
तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया $ त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः &
परिवयसे पशून् इव गिरा विबुधान् अपि तांस् % त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ भ्प्_10.87.027* ॥
त्वम् अकरणः स्व-राड् अखिल-कारक-शक्ति-धरस् $ तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः &
त्वम् अकरणः स्व-राड् अखिल-कारक-शक्ति-धरस् $ तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः &
वर्ष-भुजो ऽखिल-क्षिति-पतेर् इव विश्व-सृजो % विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः ॥ भ्प्_10.87.028* ॥
स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो $ विहर उदीक्षया यदि परस्य विमुक्त ततः &
स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो $ विहर उदीक्षया यदि परस्य विमुक्त ततः &
न हि परमस्य कश्चिद् अपरो न परश् च भवेद् % वियत इवापदस्य तव शून्य-तुलां दधतः ॥ भ्प्_10.87.029* ॥
अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् $ तर्हि न शास्यतेति नियमो ध्रव नेतरथा &
अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् $ तर्हि न शास्यतेति नियमो ध्रव नेतरथा &
अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् % समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ भ्प्_10.87.030* ॥
न घटत उद्भवः प्रकृति-पूरुषयोर् अजयोर् $ उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् &
न घटत उद्भवः प्रकृति-पूरुषयोर् अजयोर् $ उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् &
त्वयि त इमे ततो विविध-नाम-गुणैः परमे % सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः ॥ भ्प्_10.87.031* ॥
नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं $ त्वयि सु-धियो ऽभवे दधति भावम् अनुप्रभवम् &
नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं $ त्वयि सु-धियो ऽभवे दधति भावम् अनुप्रभवम् &
कथम् अनुवर्ततां भव-भयं तव यद् भ्रु-कुटिः % सृजति मुहुस् त्रि-नेमिर् अभवच्-छरणेषु भयम् ॥ भ्प्_10.87.032* ॥
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं $ य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः &
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं $ य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः &
व्यसन-शतान्विताः समवहाय गुरोश् चरणं % वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ भ्प्_10.87.033* ॥
स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् $ त्वयि सति किं नृणाम् श्रयत आत्मनि सर्व-रसे &
स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् $ त्वयि सति किं नृणाम् श्रयत आत्मनि सर्व-रसे &
इति सद् अजानतां मिथुनतो रतये चरतां % सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे ॥ भ्प्_10.87.034* ॥
भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् $ त उत भवत्-पदाम्बुज-हृदो ऽघ-भिद्-अङ्घ्रि-जलाः &
भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् $ त उत भवत्-पदाम्बुज-हृदो ऽघ-भिद्-अङ्घ्रि-जलाः &
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे % न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ भ्प्_10.87.035* ॥
सत इदं उत्थितं सद् इति चेन् ननु तर्क-हतं $ व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् &
सत इदं उत्थितं सद् इति चेन् ननु तर्क-हतं $ व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् &
व्यवहृतये विकल्प इषितो ऽन्ध-परम्परया % भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् ॥ भ्प्_10.87.036* ॥
न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् $ अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे &
न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् $ अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे &
अत उपमीयते द्रविण-जाति-विकल्प-पथैर् % वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः ॥ भ्प्_10.87.037* ॥
स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् $ भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः &
स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् $ भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः &
त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो % महसि महीयसे ऽष्ट-गुणिते ऽपरिमेय-भगः ॥ भ्प्_10.87.038* ॥
यदि न समुद्धरन्ति यतयो हृदि काम-जटा $ दुरधिगमो ऽसतां हृदि गतो ऽस्मृत-कण्ठ-मणिः &
यदि न समुद्धरन्ति यतयो हृदि काम-जटा $ दुरधिगमो ऽसतां हृदि गतो ऽस्मृत-कण्ठ-मणिः &
असु-तृप-योगिनाम् उभयतो ऽप्य् असुखं भगवन्न् % अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥ भ्प्_10.87.039* ॥
त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् $ गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः &
त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् $ गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः &
अनु-युगम् अन्व्-अहं स-गुण गीत-परम्परया % श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनु-जैः ॥ भ्प्_10.87.040* ॥
द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया $ त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः &
द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया $ त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः &
ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् % त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः ॥ भ्प्_10.87.041*
0 श्री-भगवान् उवाच
इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम्
इत्य् अशेष-समाम्नाय- पुराणोपनिषद्-रसः ।
समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः
त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् ।
धारयंश् चर गां कामं कामानां भर्जनं नृणाम्
भ्प्_10.87.045।0 श्री-शुक उवाच
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् ।
पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः
भ्प्_10.87.046।0 श्री-नारद उवाच
नमस् तस्मै भगवते कृष्णायामल-कीर्तये ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः
इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः ।
ततो ऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे
सभाजितो भगवता कृतासन-परिग्रहः ।
तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम्
इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया ।
यथा ब्रह्मण्य् अनिर्देश्ये नीऋगुणे ऽपि मनश् चरेत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0