भागवत पुराण · अध्याय 10.86
भ्प्_10.85.059।0 श्री-सूत उवाच
य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् $ चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः &
य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् $ चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः &
जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं % भगवति कृत-चित्तो याति तत्-क्षेम-धाम ॥ भ्प्_10.85.059*
0 श्री-राजोवाच
ब्रह्मन् वेदितुम् इच्छामः स्वसारां राम-कृष्णयोः ।
यथोपयेमे विजयो या ममासीत् पितामही
भ्प्_10.86.002।0 श्री-शुक उवाच
अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः ।
गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः
दुर्योधनाय रामस् तां दास्यतीति न चापरे ।
तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात्
तत्र वै वार्षितान् मासान् अवात्सीत् स्वार्थ-साधकः ।
पौरैः सभाजितो ऽभीक्ष्णं रामेणाजानता च सः
एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् ।
श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल
सो ऽपश्यत् तत्र महतीं कन्यां वीर-मनो-हराम् ।
प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे
सापि तं चकमे वीक्ष्य नारीणां हृदयं-गमम् ।
हसन्ती व्रीडितापङ्गी तन्-न्यस्त-हृदयेक्षणा
तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः ।
न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा
महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गतां ।
जहारानुमतः पित्रोः कृष्णस्य च महा-रथः
रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् ।
विद्राव्य क्रोशतां स्वानां स्व-भागं मृग-राड् इव
तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।
गृहीत-पादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः
प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः ।
महा-धनोपस्करेभ- रथाश्व-नर-योषितः
भ्प्_10.86.013।0 श्री-शुक उवाच
कृष्णस्यासीद् द्विज-श्रेष्ठः श्रुतदेव इति श्रुतः ।
कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पतः
स उवास विदेहेषु मिथिलायां गृहाश्रमी ।
अनीहयागताहार्य- निर्वर्तित-निज-क्रियः
यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत ।
नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः
तथा तद्-राष्ट्र-पालो ऽङ्ग बहुलाश्व इति श्रुतः ।
मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ
तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।
आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः
नारदो वामदेवो ऽत्रिः कृष्णो रामो ऽसितो ऽरुणिः ।
अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः
तत्र तत्र तम् आयान्तं पौरा जानपदा नृप ।
उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम्
आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- $ पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः &अम्प्;
अन्ये च तन्-मुख-सरोजम् उदार-हास- % स्निग्धेक्षणं नृप पपुर् दृशिभिर् न्र्-नार्यः ॥ भ्प्_10.86.020* ॥
तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः $ क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् &
तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः $ क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् &
शृण्वन् दिग्-अन्त-धवलं स्व-यशो ऽशुभ-घ्नं % गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥ भ्प्_10.86.021* ॥
ते ऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप ।
अभीयुर् मुदितास् तस्मै गृहीतार्हण-पाणयः
दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुलाननाशयाः ।
कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन्
स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् ।
मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः
न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः ।
मैथिलः श्रुतदेवश् च युगपत् संहताञ्जली
भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया ।
उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः
श्रान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् ।
आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः
प्रवृद्ध-भक्त्या उद्धर्ष- हृदयास्राविलेक्षणः ।
नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः
स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् ।
गन्ध-माल्याम्बराकल्प- धूप-दीपार्घ्य-गो-वृषैः
वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् ।
पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा
भ्प्_10.86.031।0 श्री-बहुलाश्व उवाच
भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृग् विभो ।
अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः
स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् ।
यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः
को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् ।
निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः
यो ऽवतीर्य यदोर् वंशे नृणां संसरताम् इह ।
यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम्
नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे ।
नारायणाय ऋषये सु-शान्तं तप ईयुषे
दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः ।
समेतः पाद-रजसा पुनीहीदं निमेः कुलम्
इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः ।
उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम्
श्रुतदेवो ऽच्युतं प्राप्तं स्व-गृहाञ् जनको यथा ।
नत्वा मुनीन् सु-संहृष्टो धुन्वन् वासो ननर्त ह
तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः ।
स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्यो ऽवनिजे मुदा
तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् ।
स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः
फलार्हणोशीर-शिवामृताम्बुभिर् मृदा सुरभ्या तुलसी-कुशाम्बुयैः ।
आराधयाम् आस यथोपपन्नया सपर्यया सत्त्व-विवर्धनान्धसा
स तर्कयाम् आस कुतो ममान्व् अभूत् गृहान्ध-कुपे पतितस्य सङ्गमः ।
यः सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णेन चास्यात्म-निकेत-भूसुरैः
सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।
स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः
भ्प्_10.86.044।0 श्रुतदेव उवाच
नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः ।
यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया
यथा शयानः पुरुषो मनसैवात्म-मायया ।
सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते
शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।
णृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम्
हृदि-स्थो ऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् ।
आत्म-शक्तिभिर् अग्राह्यो ऽप्य् अन्त्य् उपेत-गुणात्मनाम्
नमो ऽस्तु ते ऽध्यात्म-विदां परात्मने $ अनात्मने स्वात्म-विभक्त-मृत्यवे &अम्प्;
स-कारणाकारण-लिङ्गम् ईयुषे % स्व-माययासंवृत-रुद्ध-दृष्टये ॥ भ्प्_10.86.048* ॥
स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे ।
एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः
भ्प्_10.86.050।0 श्री-शुक उवाच
तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा ।
गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह
भ्प्_10.86.051।0 श्री-भगवान् उवाच
ब्रह्मंस् ते ऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् ।
सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः
देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः ।
शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया
ब्राह्मणो जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह ।
तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः
न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् ।
सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम्
दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः ।
गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः
चराचरम् इदं विश्वं भावा ये चास्य हेतवः ।
मद्-रूपाणीति चेतस्य् आधत्ते विप्रो मद्-ईक्षया
तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय ।
एवं चेद् अर्चितो ऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः
भ्प्_10.86.058।0 श्री-शुक उवाच
स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् ।
आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम्
एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0