भागवत पुराण · अध्याय 10.85
भ्प्_10.85.001।0 श्री-बादरायणिर् उवाच
अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ ।
वसुदेवो ऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ
मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् ।
तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत
कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन ।
जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ
यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा ।
स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः
एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज ।
आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज
प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः ।
पारतन्त्र्याद् वैसादृष्याद् द्वयोश् चेष्टैव चेष्टताम्
कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् ।
यत् स्थैर्यं भू-भृतां भूमेर् वृत्तिर् गन्धो ऽर्थतो भवान्
तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः ।
ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर
दिशां त्वम् अवकाशो ऽसि दिशः खं स्फोट आश्रयः ।
नादो वर्णस् त्वम् ओं-कार आकृतीनां पृथक्-कृतिः
इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः ।
अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती
भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः ।
वैकारिको विकल्पानां प्रधानम् अनुशायिनम्
नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् ।
यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम्
सत्त्वम् रजस् तम इति गुणास् तद्-वृत्तयश् च याः ।
त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया
तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः ।
त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः
गुण-प्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः ।
गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः
यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् ।
स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर
असाव् अहम् ममैवैते देहे चास्यान्वयादिषु ।
स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत्
युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ ।
भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह
तत् ते गतो ऽस्म्य् अरणम् अद्य पदारविन्दम् $ आपन्न-संसृति-भयापहम् आर्त-बन्धो &अम्प्;
एतावतालम् अलम् इन्द्रिय-लालसेन % मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः ॥ भ्प्_10.85.019* ॥
सूती-गृहे ननु जगाद भवान् अजो नौ $ सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै &
सूती-गृहे ननु जगाद भवान् अजो नौ $ सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै &
नाना-तनूर् गगन-वद् विदधज् जहासि % को वेद भूम्न उरु-गाय विभूति-मायाम् ॥ भ्प्_10.85.020*
0 श्री-शुक उवाच
आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः ।
प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा
भ्प्_10.85.022।0 श्री-भगवान् उवाच
वचो वः समवेतार्थं तातैतद् उपमन्महे ।
यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः
अहं यूयम् असाव् आर्य इमे च द्वारकाउकसः ।
सर्वे ऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम्
आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः ।
आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते
खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् ।
आविस्-तिरो-ऽल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि
भ्प्_10.85.026।0 श्री-शुक उवाच
एवं भगवता राजन् वसुदेव उदाहृतः ।
श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत्
अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता ।
श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता
कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् ।
स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना
भ्प्_10.85.029।0 श्री-देवक्य् उवाच
राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।
वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ
कल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् ।
भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता
चिरान् मृत-सुतादाने गुरुणा किल चोदितौ ।
आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-दक्षिणाम्
तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।
भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान्
भ्प्_10.85.034।0 ऋषिर् उवाच
एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत ।
सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ
तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड् $ विश्वात्म-दैवं सुतरां तथात्मनः &अम्प्;
तद्-दर्शनाह्लाद-परिप्लुताशयः % सद्यः समुत्थाय ननाम सान्वयः ॥ भ्प्_10.85.035* ॥
तयोः समानीय वरासनं मुदा निविष्टयोस् तत्र महात्मनोस् तयोः ।
दधार पादाव् अवनिज्य तज् जलं स-वृन्द आ-ब्रह्म पुनद् यद् अम्बु ह
समर्हयाम् आस स तौ विभूतिभिर् महार्ह-वस्त्राभरणानुलेपनैः ।
ताम्बूल-दीपामृत-भक्षणादिभिः स्व-गोत्र-वित्तात्म-समर्पणेन च
स इन्द्रसेनो भगवत्-पदाम्बुजं बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।
उवाच हानन्द-जलाकुलेक्षणः प्रहृष्ट-रोमा नृप गद्गदाक्षरम्
भ्प्_10.85.039।0 बलिर् उवाच
नमो ऽनन्ताय बृहते नमः कृष्णाय वेधसे ।
साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने
दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् ।
रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया
दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः ।
यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः
विशुद्ध-सत्त्व-धाम्न्य् अद्धा त्वयि शास्त्र-शरीरिणि ।
नित्यं निबद्ध-वैरास् ते वयं चान्ये च तादृशाः
केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः ।
न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः
इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर ।
न विदन्त्य् अपि योगेशा योग-मायां कुतो वयम्
तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत् $ पादारविन्द-धिषणान्य-गृहान्ध-कूपात् &अम्प्;
निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः % शान्तो यथैक उत सर्व-सखैश् चरामि ॥ भ्प्_10.85.045* ॥
शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो ।
पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते
भ्प्_10.85.047।0 श्री-भगवान् उवाच
आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमे ऽन्तरे ।
देवाः कं जहसुर् वीक्ष्य सुतं यभितुम् उद्यतम्
तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा ।
हिरण्यकशिपोर् जाता नीतास् ते योग-मायया
देवक्या उदरे जाता राजन् कंस-विहिंसिताः ।
सा तान् शोचत्य् आत्मजान् स्वांस् त इमे ऽध्यासते ऽन्तिके
इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये ।
ततः शापाद् विनिर्मक्ता लोकं यास्यन्ति विज्वराः
स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी ।
षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम्
इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।
पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम्
तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी ।
परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः
अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् ।
मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते
पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः ।
नारायणाङ्ग-संस्पर्श- प्रतिलब्धात्म-दर्शनाः
ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।
मिषतां सर्व-भूतानां ययुर् धाम दिवौकसाम्
तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् ।
मेने सु-विस्मिता मायां कृष्णस्य रचितां नृप
एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः ।
वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0