भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.84

10.84.002

भ्प्_10.84.001।0 श्री-शुक उवाच
श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी $ माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः &
श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी $ माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः &
कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं % सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ भ्प्_10.84.001* ॥
इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु ।
आययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया

10.84.003

द्वैपायनो नारदश् च च्यवनो देवलो ऽसितः ।
विश्वामित्रः शतानन्दो भरद्वाजो ऽथ गौतमः

10.84.004

रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः ।
पुलस्त्यः कश्यपो ऽत्रिश् च मार्कण्डेयो बृहस्पतिः

10.84.005

द्वितस् त्रितश् चैकतश् च ब्रह्म-पुत्रास् तथाङ्गिराः ।
अगस्त्यो याज्ञवल्क्यश् च वामदेवादयो ऽपरे

10.84.006

तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः ।
पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान्

10.84.007

तान् आनर्चुर् यथा सर्वे सह-रामो ऽच्युतो ऽर्चयत् ।
स्वागतासन-पाद्यार्घ्य- माल्य-धूपानुलेपनैः

10.84.008

उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः ।
सदसस् तस्य महतो यत-वाचो ऽनुशृण्वतः

10.84.009

भ्प्_10.84.009।0 श्री-भगवान् उवाच
अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् ।
देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम्

10.84.010

किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् ।
दर्शन-स्पर्शन-प्रश्न- प्रह्व-पादार्चनादिकम्

10.84.011

न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः

10.84.014

नाग्निर् न सूर्यो न च चन्द्र-तारका $ न भूर् जलं खं श्वसनो ऽथ वाङ् मनः &अम्प्;
उपासिता भेद-कृतो हरन्त्य् अघं % विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥ भ्प्_10.84.012* ॥
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके $ स्व-धीः कलत्रादिषु भौम इज्य-धीः &
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके $ स्व-धीः कलत्रादिषु भौम इज्य-धीः &
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् % जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ भ्प्_10.84.013*
0 श्री-शुक उवाच
निशम्येत्थं भगवतः कृष्णस्याकुण्थ-मेधसः ।
वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः

10.84.015

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।
जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम्

10.84.016

भ्प्_10.84.016।0 श्री-मुनय ऊचुः
यन्-मायया तत्त्व-विद्-उत्तमा वयं विमोहिता विश्व-सृजाम् अधीश्वराः ।
यद् ईशितव्यायति गूढ ईहया अहो विचित्रम् भगवद्-विचेष्टितम्

10.84.017

अनीह एतद् बहुधैक आत्मना सृजत्य् अवत्य् अत्ति न बध्यते यथा ।
भौमैर् हि भूमिर् बहु-नाम-रूपिणी अहो विभूम्नश् चरितं विडम्बनम्

10.84.018

अथापि काले स्व-जनाभिगुप्तये बिभर्षि सत्त्वं खल-निग्रहाय च ।
स्व-लीलया वेद-पथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान्

10.84.019

ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः ।
यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम्

10.84.020

तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः ।
सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान्

10.84.021

अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः ।
त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः

10.84.022

नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
स्व-योगमाययाच्छन्न- महिम्ने परमात्मने

10.84.023

न यं विदन्त्य् अमी भू-पा एकारामाश् च वृष्णयः ।
माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम्

10.84.024

यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् ।
नाम-मात्रेन्द्रियाभातं न वेद रहितं परम्

10.84.025

एवं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया ।
मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात्

10.84.027

तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष- $ तीर्थास्पदं हृदि कृतं सु-विपक्व-योगैः &अम्प्;
उत्सिक्त-भक्त्य्-उपहताशय जीव-कोशा % आपुर् भवद्-गतिम् अथानुगृहान भक्तान् ॥ भ्प्_10.84.026*
0 श्री-शुक उवाच
इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।
राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः

10.84.028

तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः ।
प्रणम्य चोपसङ्गृह्य बभाषेदं सु-यन्त्रितः

10.84.029

भ्प्_10.84.029।0 श्री-वसुदेव उवाच
नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ ।
कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम्

10.84.030

भ्प्_10.84.030।0 श्री-नारद उवाच
नाति-चित्रम् इदं विप्रा वसुदेवो बुभुत्सया ।
कृष्णम् मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः

10.84.031

सन्निकर्षो ऽत्र मर्त्यानाम् अनादरण-कारणम् ।
गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये

10.84.032

यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै ।
स्वतो ऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति

10.84.033

तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर् अव्याहतानुभवम् ईश्वरम् अद्वितीयम् ।
प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो मन्येत सूर्यम् इव मेघ-हिमोपरागैः

10.84.034

अथोचुर् मुनयो राजन्न् आभाष्यानल्सदुन्दभिम् ।
सर्वेषां शृण्वतां राज्ञां तथैवाच्युत-रामयोः

10.84.035

कर्मणा कर्म-निर्हार एष साधु-निरूपितः ।
यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः

10.84.036

चित्तस्योपशमो ऽयं वै कविभिः शास्त्र-चक्षुसा ।
दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः

10.84.037

अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः

10.84.038

वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतैषणाम् ।
आत्म-लोकैषणां देव कालेन विसृजेद् बुधः ।
ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम्

10.84.039

ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितॄणां प्रभो ।
यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत्

10.84.040

त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते ।
यज्ञैर् देवर्णम् उन्मुच्य निरृणो ऽशरणो भव

10.84.041

वसुदेव भवान् नूनं भक्त्या परमया हरिम् ।
जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः

10.84.042

भ्प्_10.84.042।0 श्री-शुक उवाच
इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः ।
तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च

10.84.043

त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् ।
तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः

10.84.044

तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः ।
स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः

10.84.045

तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः ।
दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः

10.84.046

नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः ।
ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः ।
जगुः सु-कण्ठ्यो गन्धर्व्यः सङ्गीतं सह-भर्तृकाः

10.84.047

तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः ।
पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः

10.84.048

ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः ।
स्व्-अलङ्कृताभिर् विबभौ दीक्षितो ऽजिन-संवृतः

10.84.049

तस्यर्त्विजो महा-राज रत्न-कौशेय-वाससः ।
स-सदस्या विरेजुस् ते यथा वृत्र-हणो ऽध्वरे

10.84.050

तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ ।
रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः

10.84.051

ईजे ऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः ।
प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम्

10.84.052

अथर्त्विग्भ्यो ऽददात् काले यथाम्नातं स दक्षिणाः ।
स्व्-अलङ्कृतेभ्यो ऽलङ्कृत्य गो-भू-कन्या महा-धनाः

10.84.053

पत्नी-संयाजावभृथ्यैश् चरित्वा ते महर्षयः ।
सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः

10.84.054

स्नातो ऽलङ्कार-वासांसि वन्दिभ्यो ऽदात् तथा स्त्रियः ।
ततः स्व्-अलङ्कृतो वर्णान् आ-श्वभ्यो ऽन्नेन पूजयत्

10.84.055

बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा ।
विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान्

10.84.056

सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् ।
श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्

10.84.057

धृतराष्ट्रो ऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।
नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः

10.84.058

बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः ।
ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः

10.84.059

नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः ।
कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः

10.84.060

वसुदेवो ऽञ्जसोत्तीर्य मनोरथ-महार्णवम् ।
सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन्

10.84.061

भ्प्_10.84.061।0 श्री-वसुदेव उवाच
भ्रातर् ईश-कृतः पाशो नृनां यः स्नेह-संज्ञितः ।
तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम्

10.84.062

अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः ।
मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित्

10.84.063

प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि ।
अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः

10.84.064

मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मान-द ।
स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक्

10.84.065

भ्प्_10.84.065।0 श्री-शुक उवाच
एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः ।
रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः

10.84.066

नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः ।
अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत्

10.84.067

ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः ।
परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः

10.84.068

वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः ।
दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ

10.84.069

नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे ।
मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः

10.84.070

बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः ।
वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः

10.84.071

जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् ।
यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc