भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.83

10.83.001

आहुश् च ते नलिन-नाभ पदारविन्दं $ योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः &अम्प्;
संसार-कूप-पतितोत्तरणावलम्बं % गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ भ्प्_10.82.048*
0 श्री-शुक उवाच
तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।
युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदो ऽव्ययम्

10.83.002

त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः ।
प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः

10.83.003

कुतो ऽशिवं त्वच्-चरणाम्बुजासवं महन्-मनस्तो मुख-निःसृतं क्वचित् ।
पिबन्ति ये कर्ण-पुटैर् अलं प्रभो देहं-भृतां देह-कृद्-अस्मृति-च्छिदम्

10.83.005

हि त्वात्म धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम् $ आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् &अम्प्;
कालोपसृष्ट-निगमावन आत्त-योग- % मायाकृतिं परमहंस-गतिं नताः स्म ॥ भ्प्_10.83.004*

10.83.006

0 श्री-ऋषिर् उवाच
इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् $ अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः &
इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् $ अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः &
समेत्य गोविन्द-कथा मिथो ऽगृनंस् % त्रि-लोक-गीताः शृणु वर्णयामि ते ॥ भ्प्_10.83.005*
0 श्री-द्रौपद्य् उवाच
हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे

10.83.007

हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् ।
उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया

10.83.009

भ्प्_10.83.008।0 श्री-रुक्मिण्य् उवाच
चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु $ राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः &
चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु $ राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः &
निन्ये मृगेन्द्र इव भागम् अजावि-यूथात् % तच्-छ्री-निकेत-चरणो ऽस्तु ममार्चनाय ॥ भ्प्_10.83.008*

10.83.010

0 श्री-सत्यभामोवाच
यो मे सनाभि-वध-तप्त-हृदा ततेन $ लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार &
यो मे सनाभि-वध-तप्त-हृदा ततेन $ लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार &
जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन % भीतः पितादिशत मां प्रभवे ऽपि दत्ताम् ॥ भ्प्_10.83.009*

10.83.011

0 श्री-जाम्बवत्य् उवाच
प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं $ सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् &
प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं $ सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् &
ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां % पादौ प्रगृह्य मणिनाहम् अमुष्य दासी ॥ भ्प्_10.83.010*
0 श्री-कालिन्द्य् उवाच
तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया ।
सख्योपेत्याग्रहीत् पाणिं यो ऽहं तद्-गृह-मार्जनी

10.83.013

भ्प्_10.83.012।0 श्री-मित्रविन्दोवाच
यो मां स्वयं-वर उपेत्य विजित्य भू-पान् $ निन्ये श्व-यूथ-गं इवात्म-बलिं द्विपारिः &
यो मां स्वयं-वर उपेत्य विजित्य भू-पान् $ निन्ये श्व-यूथ-गं इवात्म-बलिं द्विपारिः &
भ्रातॄंश् च मे ऽपकुरुतः स्व-पुरं श्रियौकस् % तस्यास्तु मे ऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् ॥ भ्प्_10.83.012*

10.83.015

0 श्री-सत्योवाच
सप्तोक्षणो ऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् $ पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय &
सप्तोक्षणो ऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् $ पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय &
तान् वीर-दुर्मद-हनस् तरसा निगृह्य % क्रीडन् बबन्ध ह यथा शिशवो ऽज-तोकान् ॥ भ्प्_10.83.013* ॥
य इत्थं वीर्य-शुल्कां मां $ दासीभिश् चतुर्-अन्गिणीम् &
य इत्थं वीर्य-शुल्कां मां $ दासीभिश् चतुर्-अन्गिणीम् &
पथि निर्जित्य राजन्यान् % निन्ये तद्-दास्यम् अस्तु मे ॥ भ्प्_10.83.014*
0 श्री-भद्रोवाच
पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् ।
कृष्णे कृष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः

10.83.016

अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि ।
कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः

10.83.017

भ्प्_10.83.017।0 श्री-लक्ष्मणोवाच
ममापि राज्ञ्य् अच्युत-जन्म-कर्म श्रुत्वा मुहुर् नारद-गीतम् आस ह ।
चित्तं मुकुन्दे किल पद्म-हस्तया वृतः सु-सम्मृश्य विहाय लोक-पान्

10.83.018

ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः ।
बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत्

10.83.019

यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः ।
अयं तु बहिर् आच्छन्नो दृश्यते स जले परम्

10.83.020

श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् ।
सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः सहस्रशः

10.83.021

पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः ।
आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः

10.83.022

आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः ।
आ-कोष्ठं ज्यां समुत्कृष्य पेतुर् एके ऽमुनाहताः

10.83.023

सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः ।
भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम्

10.83.024

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् ।
पार्थो यत्तो ऽसृजद् बाणं नाच्छिनत् पस्पृशे परम्

10.83.025

राजन्येषु निवृत्तेषु भग्न-मानेषु मानिषु ।
भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया

10.83.026

तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले ।
छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते

10.83.027

दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि ।
देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः

10.83.030

तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां $ पद्भ्यां प्रगृह्य कनकोइज्वल-रत्न-मालाम् &अम्प्;
नूत्ने निवीय परिधाय च कौशिकाग्र्ये % स-व्रीड-हास-वदना कवरी-धृत-स्रक् ॥ भ्प्_10.83.028* ॥
उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- $ गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः &
उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- $ गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः &
राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् % अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ भ्प्_10.83.029* ॥
तावन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः ।
निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः

10.83.031

एवं वृते भगवति मयेशे नृप-यूथपाः ।
न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः

10.83.032

मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् ।
शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः

10.83.033

दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् ।
मिषतां भू-भुजां राज्ञि मृगाणां मृग-राड् इव

10.83.034

ते ऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।
संयत्ता उद्धृतेष्व्-आसा ग्राम-सिंहा यथा हरिम्

10.83.035

ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः ।
निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः

10.83.037

ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां $ रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् &अम्प्;
कुशस्थलीं दिवि भुवि चाभिसंस्तुतां % समाविशत् तरणिर् इव स्व-केतनम् ॥ भ्प्_10.83.036* ॥
पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् ।
महार्ह-वासो-ऽलङ्कारैः शय्यासन-परिच्छदैः

10.83.038

दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः ।
आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः

10.83.039

आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः ।
सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम

10.83.041

भ्प्_10.83.040।0 महिष्य ऊचुः
भौमं निहत्य स-गणं युधि तेन रुद्धा $ ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः &
भौमं निहत्य स-गणं युधि तेन रुद्धा $ ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः &
निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः % पादाम्बुजं परिणिनाय य आप्त-कामः ॥ भ्प्_10.83.040* ॥
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम्

10.83.042

कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः

10.83.043

व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पद-स्पर्शं महात्मनः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc