भागवत पुराण · अध्याय 10.81
भ्प्_10.81.001।0 श्री-शुक उवाच
स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः ।
सर्व-भूत-मनो-ऽभिज्ञः स्मयमान उवाच तम्
ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।
प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः
भ्प्_10.81.003।0 श्री-भगवान् उवाच
किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् ।
अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भुर्य् एव मे भवेत् ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः
इत्य् उक्तो ऽपि द्वियस् तस्मै व्रीडितः पतये श्रियः ।
पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः
सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् ।
विज्ङायाचिन्तयन् नायं श्री-कामो माभजत् पुरा
पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया ।
प्राप्तो माम् अस्य दास्यामि सम्पदो ऽमर्त्य-दुर्लभाः
इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः ।
स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान्
नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे ।
तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुक-तण्डुलाः
इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे ।
तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः
एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये ।
अस्मिन् लोके ऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम्
ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे ।
भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्-गतं यथा
श्वो-भूते विश्व-भावेन स्व-सुखेनाभिवन्दितः ।
जगाम स्वालयं तात पथ्य् अनव्रज्य नन्दितः
स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् ।
स्व-गृहान् व्रीडितो ऽगच्छन् महद्-दर्शन-निर्वृतः
अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया ।
यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि
क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः ।
ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः
निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरो यथा ।
महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया
शुश्रूषया परमया पाद-संवाहनादिभिः ।
पूजितो देव-देवेन विप्र-देवेन देव-वत्
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम्
अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् ।
इति कारुणिको नूनं धनं मे ऽभूरि नाददात्
इति तच् चिन्तयन्न् अन्तः प्राप्तो निय-गृहान्तिकम् ।
सूर्यानलेन्दु-सङ्काशैर् विमानैः सर्वतो वृतम्
विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः ।
प्रोत्फुल्ल-कमुदाम्भोज- कह्लारोत्पल-वारिभिः
जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः ।
किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत्
एवं मीमांसमानं तं नरा नार्यो ऽमर-प्रभाः ।
प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा
पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा ।
निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात्
पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना ।
मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे
पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव ।
दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः
प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् ।
मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।
पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च
आसनानि च हैमानि मृदूपस्तरणानि च ।
मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च
स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च ।
रत्न-दीपान् भ्राजमानान् ललना रत्न-संयुताः
विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् ।
तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहैतुकीम्
नूनं बतैतन् मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धि-हेतुः ।
महा-विभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य
नन्व् अब्रुवाणो दिशते समक्षं याचिष्णवे भूर्य् अपि भूरि-भोजः ।
पर्जन्य-वत् तत् स्वयम् ईक्षमाणो दाशार्हकाणाम् ऋषभः सखा मे
किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं $ सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी &अम्प्;
मयोपणीतं पृथुकैक-मुष्टिं % प्रत्यग्रहीत् प्रीति-युतो महात्मा ॥ भ्प्_10.81.035* ॥
तस्यैव मे सौहृद-सख्य-मैत्री- दास्यं पुनर् जन्मनि जन्मनि स्यात् ।
महानुभावेन गुणालयेन विषज्जतस् तत्-पुरुष-प्रसङ्गः
भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर् न समर्थयत्य् अजः ।
अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम्
इत्थं व्यवसितो बुद्ध्या भक्तो ऽतीव जनार्दने ।
विषयान् जायया त्यक्ष्यन् बुभुजे नाति-लम्पटः
तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः ।
ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम्
एवं स विप्रो भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् ।
तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस् तद्-धाम लेभे ऽचिरतः सतां गतिम्
एतद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः ।
लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0