भागवत पुराण · अध्याय 10.80
भ्प्_10.80.001।0 श्री-राजोवाच
भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।
वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो
को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोक-सत्-कथाः ।
विरमेत विशेष-ज्ञो विषण्णः काम-मार्गणैः
सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ मनश् च ।
स्मरेद् वसन्तं स्थिर-जङ्गमेषु शृणोति तत्-पुण्य-कथाः स कर्णः
शिरस् तु तस्योभय-लिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः ।
अङ्गानि विष्णोर् अथ तज्-जनानां पादोदकं यानि भजन्ति नित्यम्
भ्प्_10.80.005।0 सूत उवाच
विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः ।
वासुदेवे भगवति निमग्न-हृदयो ऽब्रवीत्
भ्प्_10.80.006।0 श्री-शुक उवाच
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्म-वित्तमः ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।
तस्य भार्या कु-चैलस्य क्षुत्-क्षामा च तथा-विधा
पति-व्रता पतिं प्राह म्लायता वदनेन सा ।
दरिद्रं सीदमाना वै वेपमानाभिगम्य च
ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः ।
ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः
तम् उपैहि महा-भाग साधूनां च परायणम् ।
दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने
आस्ते ऽधुना द्वारवत्यां भोज-वृष्ण्य्-अन्धकेश्वरः ।
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः
स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः ।
अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम्
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।
अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम्
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् ।
चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम्
स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल ।
कृष्ण-सन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन्
त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः ।
विप्रो ऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्युत-धर्मिणाम्
गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः ।
विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा
तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा
सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः
अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् ।
उपहृत्यावनिज्यास्य पादौ पादावनेजनीः
अग्रहीच् छिरसा राजन् भगवांल् लोक-पावनः ।
व्यलिम्पद् दिव्य-गन्धेन चन्दनागुरु-कुङ्कमैः
धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा ।
अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत्
कु-चैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् ।
देवी पर्यचरत् साक्षाच् चामर-व्यजनेन वै
अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना ।
विस्मितो ऽभूद् अति-प्रीत्या अवधूतं सभाजितम्
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोके ऽस्मिन् गर्हितेनाधमेन च
यो ऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः ।
पर्यङ्क-स्थां श्रियं हित्वा परिष्वक्तो ऽग्र-जो यथा
कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः ।
आत्मनोर् ललिता राजन् करौ गृह्य परस्परम्
भ्प्_10.80.028।0 श्री-भगवान् उवाच
अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् ।
समावृत्तेन धर्म-ज्ञ भार्योढा सदृशी न वा
प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा ।
नैवाति-प्रीयसे विद्वन् धनेषु विदितं हि मे
केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः ।
त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम्
कच्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः ।
द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते
स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः ।
आद्यो ऽङ्ग यत्राश्रमिणां यथाहं ज्ञान-दो गुरुः
नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रम-वताम् इह ।
ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम्
नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा
अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।
गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित्
प्रविष्टानां महारण्यम् अपर्तौ सु-महद् द्विज ।
वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः
सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः ।
निम्नं कूलं जल-मयं न प्राज्ञायत किञ्चन
वयं भृशम् तत्र महानिलाम्बुभिर् निहन्यमाना महुर् अम्बु-सम्प्लवे ।
दिशो ऽविदन्तो ऽथ परस्परं वने गृहीत-हस्ताः परिबभ्रिमातुराः
एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः ।
अन्वेषमाणो नः शिष्यान् आचार्यो ऽपश्यद् आतुरान्
अहो हे पुत्रका यूयम् अस्मद्-अर्थे ऽति-दुःखिताः ।
आत्मा वै प्राणिनाम् प्रेष्ठस् तम् अनादृत्य मत्-पराः
एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् ।
यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ
तुष्टो ऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः ।
छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च
इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि ।
गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये
भ्प्_10.80.044।0 श्री-ब्राह्मण उवाच
किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो ।
भवता सत्य-कामेन येषां वासो गुरोर् अभूत्
यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो ।
श्रेयसां तस्य गुरुषु वासो ऽत्यन्त-विडम्बनम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0